SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ( ७२ ) नरपतिजयचर्या कार्या । शुभस्य पूर्णदृष्टिवेधयोर्विशोपकाश्चत्वारिंशद्भवंति ४० दृष्टिस्थानवेधयोः पादहीना विंशोपकास्त्रिंशत् ३० एवं द्विपादेन विंशतिः २० एकपादेन दश १० एवं शुभानां पृथक् पृथक् कृत्वा एकत्र कार्या । पापानामपि पृथक् कृत्वा विंशोपकान् एकत्र कुर्यात् ॥ ९८ ॥ ततः किं कार्यमित्याह । एवं विंशोपकेति । सुगमम् ॥९९॥ वर्तमानार्थेति ॥ १०० ॥ देशध्वंसः प्रजापीडा नृपतिप्रवधस्तथा ॥ यत्र दृष्टिश्च तत्र स्याद्दुभिक्षं मण्डले स्फुटम् ॥१०१॥ अकालेपि फलं पुष्पं वृक्षाणां यत्र जायते ॥ स्वजातिमांसभुक्तिश्च दुर्भिक्षं तत्र रौरवम् ॥ १०२ ॥ परचक्रागमस्तत्र विग्रहश्च स्वराजके ॥ ऋतोर्विपर्ययो यत्र दुर्भिक्षं मण्डले भवेत् ॥ १०३ ॥ भूमिकंपो रजःपातो रक्तवृष्टिश्च जा यते ॥ देशे सर्वसुखोपेते वेधादेवं वदेद्बुधः ॥ १०४ ॥ वृक्षाणां जायते वृद्धिः स्वकाले फलपुष्पयोः ॥ सुभिक्षं क्षेमारोग्यं च प्रजानां तत्र जायते ॥ १०५ ॥ स्वचक्रं परचक्रं च न कदाचित्प्रजायते ॥ बांधवाः सुहृदस्तत्र शुभानां वेधसम्भवे ॥ १०६ ॥ दीपो यथा गृहस्यान्तरुद्योतयति सर्वतः ॥ तथेदं सर्वतोभद्रं चक्रं ज्ञानप्रकाशकम् ॥१०७ ॥ विना बलिं विना होमं कुमारीपूजनं विना ॥ शुभग्रहं विना देवि चक्रराजं न वीक्षयेत् ॥ १०८ ॥ अविचार्य - तया पृच्छेत्पृच्छकः कथकस्तथा ॥ द्वाविमौ विघ्नदौ प्रोक्तावत्र दवि न संशयः ॥ १०९ ॥ जातकं च तिथिं राशिं विज्ञेयं नामतोज्ज्वल ॥ अज्ञातजातकानां तु समस्तमभिधानतः ॥ ११० ॥ विस्तरेण मयाख्यातं यथोक्तं ब्रह्मयामले ॥ न देयं यस्य कस्यापि चक्रमेतत्सुनिश्चितम् ॥ १११ ॥ इति ब्रह्मयामले नरपतिजयचर्यायां स्वरोदये सर्वतोभद्रचक्रं समाप्तम् ॥ अथ परिशिष्टं यदि पापदृष्टिवेध विशोषकं तत्फलमाह देशध्वंसमिति। सुगमम् ॥ १०१ ॥ अकापीति ॥ १०२ ॥ परचक्रेति ॥ स्वराजके स्वकुले विग्रहः । सुगमम् ॥ १०३ ॥ भूमिकम्प इति ॥ १०४॥ अथ शुभानां यदि शेषविंशापकं तत्फलमाह । वृक्षाणां जायते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy