SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ (७०) नरपतिजयचर्यामित्याह । स्वमित्रसमामति । यदि देशमंडलग्रामाधिपतयः स्वाधिपतयो भवंति देशपति. धकर्ता यदि देशराशिपतिर्भवति । स च शुभस्तदा चतुर्भिः पादैः शुभं देशस्य धत्तेामित्रश्वेत्तदा त्रिभिः पादैः शुभं करोति । समश्चेत्तदा विचरणेन शुभं धत्ते । शत्रुश्चत्तदा एकेन पादेन । एवं वर्षमासदिनानां शुभग्रहबलविचारेण शुभम् । तथा धातुमूलजीवाधिपविचारेण स्वमित्रादिविचारेण चतुस्विद्येकपादैः शुभग्रहस्य वेधात् शुभं कल्पयेत् ॥ ८९॥ अथ क्रूरवेधविचारमाह । स्वमित्रसमोत । क्रूरग्रहस्य विचारोयमेवास्वगृही एकेन पादेन। मित्रगृही द्वाभ्याम् । समगृही त्रिभिः पादैः । शत्रुगृही चतुर्भिः पादैधात् दुष्टं फलं कुर्यादिति ॥ ९॥ विद्धं पूर्णदृशा पश्यंस्तत्पादेन फलं ग्रहः ॥ विदधात्यन्यथा ज्ञेयं फलं दृष्टयानुमानतः ॥ ९१ ॥ वर्णादिस्वरराशीनां मेषाये राशिमंडले ॥ ग्रहदृष्टिवशात्सोपि वेधो वर्णादिके मतः ॥९२॥ स्वरवर्णाः स्वचक्रोक्तास्तिथिवेधे च पीडिताः ॥ तिथौ वर्णेच राशौ च स्वदृष्टया दृष्टिजं फलम् ॥ ९३ ॥ अशुभो वा शुभो वापि शुक्ले विध्यत्तिथिं ग्रहः ॥ सर्व निजफलं दत्ते कृष्णपक्षे तु तद्दलम् ॥ ९४ ॥ खेटस्य स्वांशके ज्ञेया पूर्णा दृष्टिः सदा बुधैः॥ दृष्टिहीने पुनर्वेधे न स्यात्किंचिच्छुभाशुभम् ॥ ९५॥ अधुना विद्धफलं दृष्ट्या प्रमाणयति। विद्धं पूर्णदृशेति।योदेशाधिपतिर्वेधकर्तास्वमिवादिचरणफलपाककारी यदि पश्यति तदायेन चरणेन फलं दातुकामः तत्फलमवश्यमेव भवति ।तबाम्नायः स्वगेहगश्चतुर्भिःपादेवधे सति फलपाककारी यदि पश्यति तदास एव वर्णादिपंचकं पूर्णदृशा पश्यति तदायथार्थत्वेन फलं भवतिामित्रगृहगत्रिपादेन फलदायी त्रिपाददृष्ट्या च पश्यति तदा स्वभावजफलं भवति।त्रिपादेनैवफलं परिपच्यते।समगृहस्थो वेधयति तत् द्विपादेन फलम् । द्विपाददृष्ट्या च पश्यति तदा स्वभावतो द्विपादफलं भवति । शत्रुगृहगोयदि विध्येत् तदा पादेनैकेन शुभम् । एकपादेन पश्यति तदा यथार्थत्वं फलम् । विशेषो व्याख्यायते। शत्रुगृहस्थो यदि पादेन वेधं फलम् । स चेत्पूर्णदृशा पश्यति तदा पादं फलं सम्यक् । स्थानवेधदृष्टिवेधयोः समानत्वम् ॥९१॥अथ वर्णादिपंचके ग्रहदृष्टिमाह । वर्णादीति मेषाये राशिमंडले द्वादशारचक्रे । ग्रहो ययं राशिम् एकादिपादवृद्धया पश्यति तदा तस्मिन् तस्मिन् राशौ यद्यद्वर्णादिपंचकमस्ति तत्तद्राशिदर्शनात तदपि दृष्टं भवति ॥ ९२ ॥ राशिस्थं वर्णादिपंचकं प्रदर्शयन्नाह । स्वरवर्णा इति।स्वरवर्णाःस्वरचक्रे उक्ताः पंचस्वराध्यायेस्वरचक्रेयेस्वरवर्णा उक्तास्ते तिथिवेधे पीडिता भवंति । यथा । मगधदेशस्य विचारःमकारो वर्णः वर्णस्वर इकारः नक्षत्रं मघा । राशिः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy