________________
जयलक्ष्मीटीकासमेता ।
( ६९ )
वोच्चगः स्वहम्र्येषु पूर्णवीर्यो ग्रहो भवेत् ॥ मेषो वृषो मृगः कन्या कर्कमीनतुलाधराः ॥ ८२ ॥ आदित्यादिग्रहोच्चाः स्युनचं यत्तस्य सप्तमम् ॥ परमोच्चा दिशो रामा अष्टाविंशास्तिथींद्रियाः ॥ ८३ ॥ सप्तविंशास्तथा विंशाः सूर्यादीनां तथांशकाः ॥ परमोच्चात्परं नीचमर्धचक्रांतसंख्यया ॥ ८४ ॥ उच्चान्नीचाच्च यत्तु समं स्थानं तदुच्यते ॥ तदग्रपृष्ठगे खेटे बलं त्रैराशिकं मतम् ॥ ८५ ॥
अथ पुनर्बलं विचारयति । वक्रोच्चगः स्वहम्येष्विति । स्वगृहे पूर्णवर्यिः वक्री पूर्णवीर्यः । उच्चगः पूर्णवीर्यः। तत्रापि यदि वक्री तदाप्यधिकबलः । उच्चस्थानादग्रगे पृष्ठस्थे राशिकेन बलं कल्प्यम् ॥ ८२ ॥ ८३ ॥ ८४ ॥ ८५ ॥
उच्चस्थे च बलं पूर्ण नीचांशस्थे बलं दलम् ॥ स्वक्षेत्रस्थे बलं
पादोन मित्रभे गृहे ॥ ८६ ॥ अर्ध समग्र ज्ञेयं पादं शत्रुगृहस्थिते ॥ त्रैराशिकवशाज्ज्ञेयमंतरे तु बलं बुधैः ॥ ८७ ॥ एवं देशादिनाथा ये ग्रहवेधे व्यवस्थिताः॥ सुहृदः शत्रवो मध्याचिंतनीयाः प्रयत्नतः ॥ ८८ ॥ स्वमित्रसमशत्रूणां वेधे देशादिषु क्रमात् ॥ शुभग्रहः शुभं धत्ते चतुस्त्रिद्वयेकपादकैः ॥ ८९ ॥ स्वमित्रसमशत्रूणां वेधे देशादिषु क्रमात् ॥ दुष्टं दुष्टग्रहः कुर्यादेकद्वित्रिचतुः पदैः ॥ ९० ॥
पुनर्बलविचारमाह । उच्चसंस्थे बलं पूर्णमिति । नीचराशौ नीचनवांशे अर्द्ध बलम् । किं बहुव्याख्यानेन । जातकोक्तबलविचारेण जातक पद्धतिबलविचारेण स्थान दिक्कालनिसर्गचेष्टादृग्भेदेयों बलविचारः । स्वोच्चस्वगृहनवांशमित्रवर्गबलविचारेण यो बली त्रयणां भवति स नाथः कल्प्यः । द्वावपि बलिनौ तदा द्वावपि नाथौ स्थाप्यौ बलाधिक्यात् त्रयोपि स्थाप्याः । बलेन देशाधिनाथं ज्ञात्वा फलं वदेत् ॥ ८६ ॥ ८७ ॥ अधुना फलविचारः । एवं देशादिनाथा इति। एवमिति वक्रोच्चादिबलविचारेण देशादीनां ये नाथा वर्तमानकाले भवति ते ग्रहवेधे व्यवस्थिताः । कोर्थः वामसन्मुखदक्षिणदृष्ट्या वेधयितुं व्यवस्थिताः । ते देशाधिपा देशस्य वर्णादिपंचकं वेधयंति । देशपतिं च देशनामराशि'पतिं वेधयन्ति । तत्र वेधे समुत्पन्ने वेधकर्तारो देशाधिपस्य किं सुहृदः शत्रवो वा मध्या उदासीना वा इति प्रयत्नतो विचारणीयाः ॥ ८८ ॥ अस्मिन् ज्ञाते किं कर्तव्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com