________________
जयलक्ष्मीटीकासमेता ।
(६७)
रेवं शुभैः शुभम् ॥ उपग्रहसमायोगान्मृत्युर्भवति नान्यथा ॥ ॥ ६९ ॥ भयं भंगश्च घातश्च मृत्युर्भगः पुरःस्थितैः ॥ कुरैरेकादिपंचांतैर्युधि वेधे फलं भवेत् ॥ ७० ॥
षटूत्रिभमिति । सुगमम् ॥ ६६ ॥ अथैषामुभयत्र वेधे फलमाह । मृत्युः स्याज्जन्मभे विद्धेति ॥ ६७ ॥ सामुदायिकेति ॥ ६८ ॥ देशति । उपग्रहे समायोगात् जननभे विद्धे मृत्युः । कर्म क्लेश एव चेत्यादि यदुक्तं तत्सर्वमुपग्रहयोगादवश्यं भविष्यतीति वाच्यम् । शुभविंद्धे शुभम् । शुभाशुभैर्मिश्रं फलम् । जातिभं संहितायामुक्तमस्ति । "पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि । स पौष्णमैत्र्यं पितृदैवतं च प्रजापतेर्भ च कृषीवलानाम् ॥ आदित्यहस्ताभिजिदश्विनी च वणिग्जने स्वाम्यमुपागताशु । सार्प विशाखा श्रवणं भरण्यश्चडालजातेरपि निर्दिशंति" इत्यादौ जातिनक्षत्राणि बोद्धव्यानि । जन्मादीनि षट् नक्षत्राणि नाडीसंज्ञकानि । राज्ञो जातिदेशाभिषेकक्षैस्त्रिभिः सह नव नक्षत्राणि नाडीसंज्ञकानि । नाडीनक्षत्रे विद्धे च शुभं किमपि न कुर्वीत ॥ ६९ ॥ अथान्यत् । भयं भंगश्चेति । जन्मादिनक्षत्रे एकादि पंचांतैः करैः पुरःस्थितैः सन्मुखवेधकारिभिर्विद्धे सति भयमादि फलं वदेत् । एकेन पापेन विद्धे भयं वदेत द्वाभ्यां भगः पलायनं त्रिभिर्घातः चतुभिर्बंधः पंचभिर्मृत्युः ॥ ७० ॥ तिथिमृक्षं स्वरं राशिं वर्ण चैव तु पंचकम् ॥ यद्दिने विध्यते चंद्रस्तद्दिने स्याच्छुभाशुभम् ॥ ७१ ॥ अथाय संप्रवक्ष्यामि यदुक्तं ब्रह्मयामले ॥ एकाशीतिपदे चक्रे ग्रहवेधाच्छुभाम् ॥ ७२ ॥ देशः कालस्ततः पण्यमिति त्रीण्यर्वनिर्णये ॥ चिंतनीयानि वेध्यानि सर्वकालं विचक्षणैः ॥ ७३ ॥ देशोथ मंडलं स्थानमिति देशस्त्रिधोच्यते ॥ वर्ष मासो दिनं चेति त्रिधा कालोपि कथ्यते ॥ ७४ ॥ धातुर्मूलं च जीवश्च इति पण्यं त्रिधा मतम् ॥ अथ त्रिकत्रिकस्यास्य वक्ष्यामि स्वामिखेचरान् ॥ ७५॥
अथ विद्धे सति कदा फलं तन्निर्णयमाह । तिथिमृक्षमिति ॥ धिष्ण्यादिपंचकं शुभो वेधयेत् । यद्दिने चंद्रः पंचकं विध्यति तद्दिने शुभं वदेत् । धिष्ण्यादिपंचके पापविद्धे चंद्रवेधे सति तद्दिने अशुभं वदेत् ॥ ७१ ॥ अथार्धं संप्रवक्ष्यामीति । स्पष्टम् ॥ ७२ ॥ अथ देशकालवशात् विषयवेधनिर्णयमाह । देशः काल इति । वणिजामर्थे देशनिर्णयः । कस्मिन् देशे सम मह पण्यं भविष्यति । पण्यं विक्रयद्रव्यम् | कालनिर्णयश्च कस्मिवर्षे समर्धे मह अयने ऋतौ मासे वा पण्यस्यापि निर्णयः । वणिजां त्रयाणामेव निर्णयः ॥ ७३ ॥ अथ देशानां विभागमाह । देशोऽथ मंडलमिति । सुगमम् ॥ ७४ ॥ धातु:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com