SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ (६६) नरपतिजयचर्या क्रोक्तप्रतिदेशे देशे करग्रहवेधे च तैलं भांडं गुडशुद्धयादिविद्धे सति तद्देश ग्रामे स मह भवतीति । बहुधनेनापि दुर्मिलं भवति । शुभग्रहविद्धे समर्धे भवति । स्वल्पधनेन बहु मिलतेि ॥ ५७ ॥ क्रूरवेधेोति ॥ ५८ ॥ अथोपग्रहमाह । सूर्यभात्पंचमं धिष्ण्य - मिति ॥ ५९ ॥ केतुरिति ॥ ६० ॥ निर्घातश्च चतुर्विंशे उक्ता अष्टावुपग्रहाः ॥ स्वस्थाने विघ्नदाः प्रोक्ताः सर्वकार्येषु सर्वदा ॥ ६९ ॥ जन्मभं कर्म आधानं विनाशं सामुदायिकम् ॥ सांघातिकमिदं धिष्ण्यं षङ्क सार्वजनीयकम् ॥ ६२ ॥ ज्ञातिदेशाभिषेकैश्च नवधिष्ण्यानि भूपतेः ॥ वेधं ज्ञात्वा फलं ब्रूहि सौम्यैः क्रूरैः शुभाशुभम् ॥ ६३ ॥ जन्मभं जन्मनक्षत्रं दशमं कर्मसंज्ञकम् ॥ एकोनविंशमाधानं त्रयोविंशं विनाशभम् ॥ ६४ ॥ अष्टादशं च नक्षत्रं सामुदायिकसंज्ञकम् ॥ सांघातिकं च विज्ञेयमृक्षं षोडशमत्र हि ॥ ६५ ॥ निर्घातश्च चतुर्विंशेति । स्वस्थाने इति । " स्वस्थानात्कुरुते वेधं गजदंष्ट्रानुसारतः ” । विद्युन्मुखादयोष्टावुपग्रहाः सर्वदा सर्वकार्येषु विघ्नदाः परंतु स्थाने एतावता यत्रयत्रोपग्रहा भवंति तत्तन्नक्षत्रं शुभकार्ये वर्जनीयम् । एते उपग्रहाः स्वस्थानस्था गजदंष्ट्रानुसारेण वामे दक्षिणे च वेधं कुर्युः सम्मुखं न वेधयंति । विद्युन्मुखो रविज्ञेयः शूलश्चंद्रः प्रकीर्त्तितः। सन्निपातः कुजो ज्ञेयो बुधः केतुः प्रकीर्तितः। उल्का ज्ञेया सुराचायों वज्रं भार्गव उच्यते । कंपः शनैश्वरो ज्ञेयो राहुर्निर्घात एव च । यद्येन वर्त्तते विद्धं पूजां तस्य तु कारयेत् । एतेषां ग्रहत्वेन द्वादशारचक्रे दृष्टिरपि भवति ॥ ६१ ॥ अथान्यदाह । जन्मभं कर्मेति । जन्मनक्षत्रादि षट्नक्षत्रं सार्वजनीयकं सर्वजनविषयं ज्ञेयम् । यतो जन्मनक्षत्रादिद प्रोक्तम् ॥ ६२ ॥ अथ विशेषमाह । ज्ञातिदेशेति ॥ ६३ ॥ अधुना तत्तन्नामांकितं जन्मभं जन्मनक्षत्रं दशमं कर्मसंज्ञकमिति ॥ ६४ ॥ अष्टादशं च नक्षत्रमिति ॥ ६५ ॥ षटत्रिभं राज्यभं प्रोक्तं जातिनामस्वजातिभम् ॥ देशभं देशनामर्क्ष राज्यक्षमभिषेकभम् ॥ ६६ ॥ मृत्युः स्याज्जन्मभे विद्धे कर्मभे क्लेश एव च ॥ आधानर्क्षे प्रवासः स्याद्विनाशे बंधुविग्रहः ॥ ६७ ॥ सामुदायिकभेऽनिष्टं हानिः सांघातिके तथा ॥ जातिभे कुलनाशश्च बंधनं चाभिषेकभे ॥ ६८ ॥ देश देशभंगश्च क्रूरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy