SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ( ६४ ) नरपतिजयचर्या ॥ ४९ ॥ नक्षत्रेऽभ्युदिते पुष्टिर्वर्णे लाभः स्वरे सुखम् ॥ राशौ जयस्तिथौ तेजः पदातिः पञ्चकोदये ॥ ५० ॥ अस्तदिकस्थपृथक्फलमाह । नक्षत्रेस्तेति । इदमपि फलं पूर्वफलेन सह । उद्वेगश्च भयमित्यादि सह मेलयित्वा फलं ब्रूयात् । अस्यार्थोपि तदनुगत एव ॥ ४६ ॥ अथास्तमितायां दिशि क्रियानिषेधमाह । यात्रायुद्धेति । अथ श्रेयांसीच्छद्भिः पुरुषैरस्ताशाभिमुखं यात्रा न कार्या । युद्धं च न कार्यम् । विवादो विद्याविवादः प्रासादस्य द्वारगृहस्य च । एतत्सर्वमस्ताशाभिमुखं न कुर्यात् ॥ ४७ ॥ अथान्यदस्तमितफलमाह । अस्ताशायां स्थितमिति ॥ मुगमम् ॥ ४८ ॥ कवौ कोटेति । नक्षत्राणि स्वरा वर्णा राशयो येषां योधानाम् अस्तंगता भवति ते योधा अस्तंगता ज्ञेयाः । तैरस्तंगतैर्योधैः किं विवर्ज्यम् । कोटं युद्धं वर्ज्यम् । द्वंद्वयुद्धे वर्ज्यम् विशेषाच्चातुरंगे महाहवेन तिष्ठेत् ॥ ॥ ४९ ॥ अथानन्तरं नक्षत्रस्वरादीनामुदितानां फलमाह । नक्षत्रेभ्युदितेति । ऋक्षेभ्युदिते शरीरपुष्टिः । वर्णे लाभः । नक्षत्रवर्णस्वरराशितिथिषु पंचसूदितेषु पदाप्तिः राज्यादिपदप्राप्तिः स्यात् ॥ ५० ॥ 1 1 प्रश्नकाले भवेद्विद्धं यलग्नं क्रूर खेचरैः॥ तद्दुष्टं शेोभनं सौम्यैर्मिश्रैमिश्रफलं मतम् ॥ ५१ ॥ ग्रहाद्भिन्नं तु यलनं फलं लग्नस्वभावतः ॥ ज्ञातव्यं देशिकेंद्रेण भाषितं यच्चरादिकम् ॥ ५२ ॥ क्रूरैरुभयतो विद्धा यस्याऽक्षरतिथिस्वराः ॥ राशिर्धिष्ण्यं च पञ्चापि तस्य मृत्युर्न संशयः ॥ ५३ ॥ मंडलं नगरं ग्रामो दुर्गे देवालयं पुरम् ॥ क्रूरैरुभयतो विद्धं विनश्यति न संशयः ॥ ५४ ॥ अथ प्रश्नकाले वेधफलमाह । प्रश्नकाले भवेदिति । सुगमम् ॥५१॥ ग्रहाद्भिन्नमिति । यच्चरादिके लग्ने प्रश्नफलमुक्तं तद्देशिकेंद्रेण ज्योतिर्विदा सर्वैर्ग्रहैरविद्धे लग्ने तु फलं लग्नस्वभावतः फलं ज्ञेयम् । लग्नस्य यः स्वभावः । हतनष्टादौ लाभालाभे जयाजये । नृचतुष्पदग्रा मारण्यजलराशिस्वभावेन फलं ब्रूयात् । अथ चरादिके यत्फलमुक्तं तदाह । " चरलनोदये नष्टं दुर्लभं रोगिणो मृतिः । जातस्यापि च तत्रैव स्वल्पमायुविनिर्दिशेत् । स्थिर लग्नोदये नष्टं स्वल्पकालेन लभ्यते । तत्र रोगी चिराद्भव्यो दीर्घायुर्लुब्धजन्मवत् । नष्टस्य शीघ्रं लाभः स्यात् रोगी शीघ्रं तु शोभनः । मध्यायुर्लब्धजन्मात्र - द्विस्वभावोदयेषु यत् " इत्यादिचरादिके गदितम् ॥ ५२ ॥ अथान्यत् । क्रूरैरुभयत इति । वेधस्त्रिविध उक्तः। वामदक्षिणसम्मुखः । उभयदिकस्थो वामेन विध्यति । वामदृष्ट्या उभयत्र वेधः । एवं सम्मुखदृष्ट्या उभयदिकस्यो वेधयति । अथवा दक्षिणदृष्ट्या वा उभयत्र वेधः कस्यापि दिशि कस्मिन्नपि नक्षत्रे मध्येगतिर्ब्रहा स्तष्ठति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy