________________
जयलक्ष्मीटीकासमेता।
(६३) तिथिराश्यंशनक्षत्रमिति । “भुक्तं भोग्यं तथा क्रांतं विद्धं पापग्रहेण भम् । शुभाशुभेषु सर्वेषु वर्जनीयं प्रयत्नतः" । सुगमम् ॥ ३९ ॥ न नंदतीति । वेधवेलायां वेधकाले कृतविवाहो न नन्दति शुभं न याति। यात्रायां न निवर्तते । वेधसमये संग्रामादियात्रा न कार्या । न रोगान्मुच्यते रोगी वेधकाले रोगो यदि जायते तदनन्तरं पापवेध उत्पद्यते ततो रोगी रोगान्न मुक्तो भवति ॥ ४० ॥ तथा च वक्ष्यति। रोगकालति । सुगमम् ॥ ४१ ।। वेधस्थाने इति । यत्र ग्रामादिस्थाने वेधो भवति तत्र स्थिति न कुर्यात् । ग्रामादिस्थानस्य स्वरवर्णादिवेधे तत्र ग्रामे स्थाने स्थितिं न कुर्यात् । क्षेत्रवेधे तत्र संग्राम न कुर्यात्तस्मात् भंगो न भवति पलायते । ग्रामवेधे ग्रामस्त्यज्यते । दुर्गे सर्वतोभद्रचक्र संस्थाप्य वेध विचारयेत् । यदिशि नक्षत्रवर्णराशिस्वरवेधस्तत्र खंडिर्भवति । दुर्ग भज्यते । तथा वेधदिशि कविप्रवेशनं कुर्यात् । योधघातश्च तत्र वै । योधनक्षत्रात् नक्षत्रपुरुष लिखित्वा यत्रांगे नक्षत्रं सर्वतोभद्रे विद्धं भवति तत्र घातं कुर्यात् ॥४२॥ यत्र पूर्वादिकाष्ठायां वृषराश्यादिगो रविः॥सा दिगस्तमिता ज्ञेया तिस्रः शेषाः सदोदिताः ॥ ४३ ॥ ईशानस्थाः स्वराः प्राच्यां ज्ञेया आग्नेयगा यमे । नैर्ऋत्यस्थास्तु वारुण्यां वायव्यां सौम्यगा मताः ॥४४॥ नक्षत्राणि स्वरा वर्णा राशयस्तिथयो दिशः॥ ते सर्वेस्तं गता ज्ञेया यत्र भानुस्त्रिमासिकः॥४५॥
अथ चक्रविचारमाह । यत्र पूर्वादीति । ईशानस्था इति वृषमिथुनकुलीराःप्राच्याम् । तत्रस्थे रखो प्राचीदिगस्तमिता तिष्ठति । सिंहकन्यातुलात्रिषु राशिषु दक्षिणास्तमिता तिष्ठति । वृश्चिकधनुर्मकराः पश्चिमायां तत्रस्थे रवौ पश्चिमास्तमिता तिष्ठति । कुम्भमीनमेषा उत्तरस्यां तत्रस्थे रखौ उत्तरदिगस्तमिता भवति ॥ ४३ ॥ ४४ ॥ तद्वशाद्विशेषमाह । नक्षत्राणीति । अथ पूर्वस्याम् अउलओ एते स्वराः कृत्तिकारोहिणीमृगशिरआ पुनर्वसुपुष्याश्लेषाः सप्त नक्षत्राणि । अवकहडाः पंचवर्णाः वृषाद्यास्त्रयः नन्दास्त्रयस्तिथयः । रविभौमवासरौ एते वृषादित्रयमासिके रवावस्तमितास्तिष्ठन्ति । एवं चतुर्दिसु नक्षत्राणि स्वरवर्णा राशयस्तिथयो दिशोऽस्तंगता ज्ञेयाः ॥ ४५ ॥ नक्षत्रेस्ते रुजो वर्णे हानिः शोकः स्वरेस्तगे ॥राशौ विघ्नं तिथौ भीतिः पश्चास्ते मरणं ध्रुवम् ॥ ४६ ॥ यात्रायुद्धं विवादश्च द्वारं प्रासादहर्म्ययोः ॥ न कर्तव्यं शुभं चान्यदस्ताशाभिमुखं नरैः॥ ॥४७॥ अस्ताशायां स्थितं यस्य यदा नामाद्यमक्षरम् ॥ तदा तु सर्वकार्येषु ज्ञेयो दैवहतो नरः॥४८॥ कवौ कोटे तथा द्वंद्वे चतरंगे महाहवे ॥ उद्यमोस्तंगतैर्योधर्वजनीयो जयार्थिभिः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com