________________
(६२)
नरपतिजयचर्या॥३६॥ ग्रहाः क्रूरास्तथा सौम्या वक्रमार्गोच्चनीचगाः ॥ स्थान च वेध्यमित्येवं बलं ज्ञात्वा फलं वदेत् ॥ ३७॥ वक्रग्रहे फलं द्विघ्नं त्रिगुणं स्वोच्चसंस्थिते ॥ स्वभावजं फलं शीघ्र नीचस्था निष्फलो ग्रहः ॥ ३८॥
अथ विशेषमाह । इदं च क्रूरसौम्यानामिति । स्वक्षेत्रस्थे बलं पूर्णामित्यादिवलं बुधगुरुशुक्रपूर्णचंद्राणां स्थानबलं ज्ञेयम् । एतदेव बलं पापग्रहाणां विपर्ययाज्ज्ञेयम् । तत्र विपर्ययः ॥ ९ ॥"शत्रुगृहे स्थिते पूर्ण पादोनं समवेश्मनि। अर्द्ध मित्रगृहे ज्ञेयं पादं पापे स्ववेश्मनि ॥" विपर्ययार्थः श्लोकेनैव व्याख्यातः ॥ ३५॥ ३६ ॥ अथ विचारमाह । ग्रहाः क्रूरा इति । क्षेत्रशब्देन स्थानमुच्यते । “वलं ज्ञात्वा फलं ब्रूयात् स्थानवेधे यथार्थतः"स्वगृहं स्थानम् । मित्रगृहम् । तदपि शत्रुगृहमपि समस्थानस्थितेन समस्थानवक्रमार्गोच्चादिगैर्ग्रहस्थानं वेध्यमिति किम् । तत्र व्याख्यायते । स्वक्षेत्रस्थेन स्थानबलिना ग्रहेण विद्ध नक्षत्रे वक्रत्वेनाधिकबालना ग्रहवेधे यत्फलमुक्तमस्ति तत्फलं पर्ण भवति । यथा रविणा विद्धे नक्षत्रे सिंहस्थेन स्वस्थानस्थेन मनस्ताप उक्तः। मनस्तापश्चरणपूर्णो भवति । सम्यक् पादफलं भवति । स्वक्षेत्रस्थेन गुरुणा च विद्ध सति जीवः सर्वफलमिति पूर्ण फलम् । पापलोपो मतिभ्रमः पूर्णों भवति । उद्वेगश्च भयं च भंगश्च रोगश्च मृत्युश्च एते अर्थाः पूर्णा वाच्याः । यस्मिन् यस्मिन् विद्ध भयादय उक्ताः तस्मिन् स्वक्षेत्रस्थेन ग्राहेण विद्ध भयादयः पूर्णा वाच्याः। स्वक्षेत्रस्थो यदि वक्री पूर्णत्वं द्विगुणम् । चतुर्भिः पादैः पूर्णः द्विगुणं चतुर्भिः फलम् । मित्रस्थेन ग्रहेण विद्ध भयाद्युत्पत्तिस्थानं तदा भयादयः पादोना वाच्याः। मित्रगेहगो भवति मित्रगृहं तदुच्चं चेत् । तदा नवगुणा भयादयो वाच्याः । शीघ्रगानां स्वभावमेव फलम् । स्थानबली शुभः शीघ्रं स्वगृहे पूर्णम् । मित्रगृहे पादोनमित्यादि नीचभेर्द्धफलप्रदः। मित्रगृहनीचगो भवति तदा शुभं सार्द्धचरणं फलं पाचयति । समगृहे अर्द्धफलम् । तद्गृहं नीचं चेत्तदा पादं फलम् । एवं स्वगृहेपि स्थानबलिनां ग्रहाणां वक्रादिफलैः सह फलाधिककल्पनां कुर्यात् ॥३७॥ तथा चवक्रग्रहे फलं द्विघ्नमिति ॥३८॥ तिथिराश्यंशनक्षत्रं विद्धं क्रूरग्रहेण यत् ॥ सर्वेषु शुभकार्येषु वर्जयेत्तत्प्रयत्नतः ॥ ३९ ॥ न नंदति विवाहे च यात्रायां न निवर्तते ॥ न रोगान्मुच्यते रोगी वेधवेलाकृतोद्यमः ॥ ४०॥ रोगकाले भवेद्वेधः करखेचरसंभवः ॥ वक्रगत्या भवेन्मृत्युः शीघे यायी रुजान्वितः ॥४१॥ वेधस्थाने रणे भंगो दुर्गे खंडिः प्रजायते ॥ कविप्रवेशनं तत्र योधघातश्च तत्र वै॥४२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com