________________
जयलक्ष्मीटीकासमेता। (६१) एकादिशुभवेधे हर्षलाभसौख्यादिभिः फलं कल्पयेत् । अत्र क्रूरयुक्तः क्रूर एव भवति क्रूरफलप्रदः । अन्यथा युक्तोन्यथा शुभयुक्तोत्यर्थ शुभः । अत्र यद्यपि नोक्तं पापशुभमिश्रितं फलं वदेत् न्यूनाधिक्यं ग्रहवशात् । पापाधिके पापफलमधिकम् । शुभाधिके शुभफलमधिकम् ॥ ३० ॥ अर्कवेधे मनस्तापो द्रव्यहानिश्च भूसुते ॥ रोगपीडाकरः सौरी राहुकेतू च विघ्नदौ ॥ ३१ ॥ चंद्र मिश्रफलं पुंसां रतिलाभश्च भार्गवे ॥ बुधवेधे भवेत्प्रज्ञा जीवः सर्वफलप्रदः ॥३२॥ सौम्यपापग्रहो हन्यानानो व्याधिधनक्षयावेधे वैनाशिकक्षस्य त्रिवेधे चायुषो भयम् ॥ ३३ ॥स्वक्षेत्रस्थे बलं पूर्ण ६० पादोनं ४५ मित्रभे गृहे ॥ अर्द्ध ३० समगृहे ज्ञेयं पादं शत्रुगृहे स्थिते॥३४॥
यथा भ्रमो ऋोक्षरे हानिरित्यादि पृथक् फलमुक्तं तथारव्यादिवेधे पृथक्फलमाह। अर्कवेधे मनस्ताप इति । व्याख्या । अर्कवेधे सात मनस्तापो भवति । किमुक्तं भवति। उद्वेगो भ्रमो नक्षत्रविद्धे । तेन अर्कनक्षत्रे विहे मनस्तापो भवति । उद्विग्नमनाः। अक्षरे हानिरुक्ता तेन भौमेन विद्धे अक्षरे विद्धे द्रव्यहानिर्भवति । पूर्वमुक्तं स्वरे व्याधिः तेन शनिना स्वरे विहे रोगवान् भवति । राशौ विद्धे महाविघ्नं भवति । अत्र राहुकेत च विघ्नदौ तेन राहुकेतुभ्यां राशौ विद्धे महाविघ्नं मृत्युः॥३१॥ अथ शुभग्रहवेधफलमाह। चंद्रे मिश्रफलमिति। चंद्रवेधे सति मिश्रं फलं पापशुभम् ।क्षीणचन्द्रः पापयुक्तः क्षीणचन्द्रवेधे पापफलम् । पूर्णचन्द्रवेधे शुभफलम् । शुक्रवेधे रतिक्रीडादि स्यादिसौख्यम् । बुधवेधे प्रज्ञा भवति । हेयोपादेये विचारे यथार्थज्ञानं भवति । जीववेधे सर्वशुभफलं भवति । अभिलषितं शुभं भवतीत्यर्थः । कस्याप्यभिप्रायोयम् । एकवधेर्थनाशश्च स्थानभ्रंशस्तथैव च ॥ नाशश्चोभयवेधेन पापाभ्यां निर्दिशेन्मृतिम् ॥ ३२ ॥ अथ विशेषमाह । सौम्यपापग्रहेति शुभपापौ यदि नानो वैनाशिकलं नाम नक्षत्रत्रयोविंशतिम २३ भं नक्षत्रं वेधयतस्तदा व्याधिधनक्षयो भवति। वैनाशिकं सामुदायिकं सांघातिकंच त्रिविधे मृत्युः ॥३३॥ अथ यत्रस्थो ग्रहः स्वल्पमध्याधिकं पापशुभं ददाति तदाह । स्वक्षेत्रस्थे बलं पूर्णमिति ॥ स्वक्षेत्रनवांशद्रेष्काणस्थे ग्रहे बलं पूर्ण ज्ञेयम् । मित्रभे मित्रराशौ नवांशे मित्रद्रेष्काणे च एकेन पादेनोनम् । कोर्थस्त्रिचरणं बलम् । अर्द्धवलं समगृहे पादं बलं शत्रुगृहे स्थिते ज्ञेयम् । इदं सामान्यमुक्तम् ॥ ३४॥ इदं च सौम्यक्रूराणां बलं स्थानवशात्मकम्॥एतदेव बलं बोध्यं सौम्य क्रूरे विपर्ययात् ॥ ३५॥ स्थानवेधसमायोगे यत्संख्यं जायत बलम् ॥ तत्संख्यं वेध्यवस्तूनां फलं ज्ञेयं विचक्षणैः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com