SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ (६०) नरपतिजयचर्याएकादिक्रूरवेधेन फलं पुंसां प्रजायते ॥ उद्वेगश्च भयं हानी रोगो मृत्युः क्रमेण च ॥ २७ ॥ऋक्षे भ्रमोक्षरे हानिः स्वरे व्याधिभयं तिथौ॥राशौ विद्धे महाविघ्नं पंचविद्धोन जीवति ॥ २८॥ अथ वेधफलमाह । एकादिकूरवेधेति । शन्यर्कराहुकेत्वाराः पंचपापा उक्ताः । तेषामेकतमे पुंसां नाम्नः स्वरवर्णराशिनक्षत्रायेकतमे वेधे उद्वेगो जायते उद्विग्नमना भवति। द्विग्रहवेधे भयं भवति । परचक्रादितः स्वचक्रादितो वा । कस्मादपि भयं भवति । त्रिग्रहवेधे भंगः राजादयः संग्रामात्पलायंते । अर्थवादे अर्थभंगः। विद्यावादे विद्याभंगः। इत्यादि बोद्धव्यम् । एकद्विव्यादिवेधकल्पना स्वरवर्णादावपि । ग्रहेष्वपि विचारः। स्वरवर्णनक्षत्रतिथिराशिपंचपापग्रहाणां समासमविचारेणोदेगादिफलम् । यदि एको वर्णादीनां मध्ये एकेन ग्रहेण वेधस्तदा उद्वेगः कियानपि विग्रहवेधे बहूद्वेगः । एवं ग्रहसंख्यया उद्वेगस्य विकल्पना । तथा वर्णस्वराणां द्विवेधे दिव्यादिग्रहेण तथा भयमपि वदेत् । एवं भंगादीनां त्रयाणामेकादिग्रहवेधेन स्वरवर्णादिषु तथा न्यूनाधिक्यं वदेत।२७॥यस्मिन्वेधे उद्देगादीनां विचारस्तमाह ॥ ऋक्षे भ्रम इति । नक्षत्र एकादिग्रहवेधे भ्रमः । ज्ञानराहित्यम् । तदेवोद्वेगः उद्वेगादपि भ्रमो भवति।वणे विद्धे हानिः कार्यादीनां हानिर्विषयादीनां वा । स्वरे व्याधिविद्धे सति भवति । एवं चतुःपापविद्धे रोग उक्तः । चतुर्भिर्यहैः स्वरे विद्धे व्याधियस्तो भवति । अत्र विचारः एकादिवेधेन उद्धेगादय उक्ताः । तेन किं समुदायेनापि भवति । चतुर्भिग्रहै विहे स्वरे उद्वेगादिव्याधिपर्यंत फलानि भवति । तिथौ विद्धे भयं पूर्वमुक्तं द्वाभ्यां वेधे भयम् । अत्र तिथौ वेधे भयं द्विपापवेधे सति भयं वाच्यम् । अत्रापि उद्वेगश्च भयमपि। राशौ विद्धे महाविघ्नं,महाविघ्नं मृत्युः। पश्चादुक्तं पंचग्रहवेधेन मृत्युः । अत्र राशौ विद्धे महाविघ्नमुक्तं तेन किम् राशेः पंचपापग्रहवेधात् विघ्नमादेश्यं मृत्युरित्यर्थः । पंचविद्धो न जीवति । अस्यायमर्थः। वर्णादीनां पंचानांवेधे सुतरां मृत्युर्भवति । ग्रंथकारस्याभिप्रायो राशेः पंचाहे वेधादेव मृत्युरिति ॥ २८ ॥ एकवेधे भयं युद्धे युग्मवेधे धनक्षयः ॥ त्रिवेधेन भवेद्भगो मृत्युवैधचतुष्टय॥२९॥यथा दुष्टफला क्रूरास्तथा सौम्याःशुभप्रदाः ॥ करयुक्ताः पुनः सौम्या ज्ञेयाः क्रूरफलप्रदाः ॥ ३० ॥ विशेषमाह । एकवेधेति । एकग्रहवेधे युद्धे भयमादेश्यम् । नान्यत्र । युग्मग्रहवेधे धनक्षयः। त्रिवेधे संग्रामात्पलायते । चतुर्ग्रहे वेधे मृत्युःसंग्रामे मृत्युर्भवति।अत्रापि ग्रहसंख्या वर्णादिसंख्या विचारः कर्त्तव्य इति पूर्ववत् ॥ २९ ॥ अथ पापग्रहवेधवशात् शुभग्रहाणां वेधफलमादिशति। यथा दुष्टफला इति । यथा एकादिक्रूरवेधे उद्वेगादि फलमुक्तम् । तथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy