________________
जयलक्ष्मीटोकासमेता।
(५९) श्चैव धफढास्थझनास्तथा ॥ एतत्रिकं त्रिकं विद्धं विद्धैः कपदभैः क्रमात् ॥ २३ ॥
अधुना वेधमाह । अवर्णादिस्वराविति । स्वरयुक्त आत्मा ययोरनुस्वारविसर्गयोः तयोरपि वेधेन द्वयोरिव वेधो ज्ञातव्यः। यतो द्वावकारसहितावुच्चार्यते । अकारं विना तयोरुच्चारणमशक्यम् ॥ २१ ॥ अथ वर्णवेधे विशेषमाह । अथ चक्रे पवर्गीयवकार उक्तः । यवर्गीयसकार उक्तः सवर्गीयौ षकारसकारौ यदि कस्यापि नाम्नि पवर्गीयो बकारः तालव्यः शवर्गीयपकारः कवर्गीयः खकारः स्यात् तदा तेषां वेधश्चक्रोक्तवसषवेधेनैव ज्ञातव्यः ॥ २२ ॥ स एव वेधः पुनरुच्यते । घडछाः खणठा इति । एते वर्णाः घङछादयो नक्षत्रचरणस्थाः कुघङछआर्द्रा । पुषणठहस्तः। भुधफढपूर्वाषाढा । दुयझ
उत्तराभाद्रपदा।आर्द्राहस्तपूर्वाषाढोत्तराभाद्रपदानां चरणवर्णाः । तेषां मध्ये कपभद एते वर्णाश्चक्रे निवेशिताः तेषां वेधे अपरे त्रयो वर्णा वेधिता भवति ॥ २३ ॥ घडछा रौद्रगे वेधे षणठा हस्तगे ग्रहे ॥ धफढाः पूर्वाषाढायां थझञा भाद्र उत्तरे ॥२४॥ अवर्णादिस्वरद्वंद्वेष्वेकवेधे द्वयोर्व्यधः।। युक्तस्वरात्मके वेधे त्वनुस्वारविसर्गयोः॥ २५ ॥ तथाचाह । घङछा रौद्रगे इति । आनिक्षत्रगते पापे शुभे घङछा वर्णा विद्धा भवति । हस्तस्थे ग्रहे षणठा वर्णा विद्धा भवंति । पूर्वाषाढास्थे ग्रहे धफढाः विद्धा. भवति । उत्तराभाद्रस्थे ग्रहे थझना वर्णा विद्धा भवंति ॥ २४ ॥ २५॥ कोणस्थधिष्ण्ययोर्मध्ये अंत्यादिपादगे ग्रहे ॥ अस्वरादिचतकस्य वेधः पूर्णातिथेः क्रमात् ॥ २६ ॥ कोणस्थोत । अत्र चतुःकोणे इयं नक्षत्रं न्यस्तमस्ति तत्र ईशानकोणे भरणीकृत्तिके आग्नेये मघाश्लेषे नैर्ऋत्ये विशाखाअनुराधे वायव्ये श्रवणधनिष्ठे पृथक् द्वयोईयोरंत्यादिपादगतयोग्रहयोदृष्टया कोणस्थानां चतुर्णा स्वराणां वेध उत्पद्यते । तथा पूर्णातिथीनां वेधः । अत्राम्नायः भरणीकृत्तिकयोरायंतचरणस्थो ग्रहः अउलओस्वरान्वेधयति । आश्लेषामघायंतचरणस्था आउल्औस्वरान् वेधयति । विशाखानुराधाद्यंतचरणस्थः इऋएअंस्वरान् वेधयति । श्रवणधनिष्ठाद्यंतचरणस्थ ईऋऐअ स्वरान्वेधयति । चतुःकोणस्थाः पूर्णातिथीन्वेधयति । अथान्यव्याख्यानम् । अस्वरादिचतुष्कस्य वेधः। अआइईएषां चतुणां वेधः । यतः एषां केनापि वेधो न संभवात उकारादीनां वर्णराशिभिः सह वेधो भवत्येव । अत एषामवेधनव्याख्यानम् ॥ २६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com