________________
. जयलक्ष्मीटीकासमेता। (५७) अधुना चक्रविचारणाय ग्रहाणां कूरसौम्यविभागमाह । शन्यर्कराहुरिति । सुगमम् ॥ १२॥ अथ ग्रहदृष्टया वेधविचारमाह । यस्मिनक्षेति । ग्रहस्थितनक्षत्रात् ग्रहदृष्ट्या वेधत्रितयं भवति । यतो ग्रहाणां त्रिविधा दृष्टिः। एकया दृष्टया सन्मुखं विध्यति । एकया दक्षिणे विध्यति,एकया वामे विध्यति ॥ १३ ॥ १४॥ वक्रगे दक्षिणा दृष्टिामदृष्टिश्च शीघ्रगे ॥ मध्यचारे तथा मध्या ज्ञेया भौमादिपंचके ॥ १५॥ सूर्यमुक्ता उदीयंते सूर्यग्रस्ता. स्तगामिनः ॥ ग्रहाद्वितीयगे सूर्ये स्फुरदिबाः कुजादयः ॥ १६ ॥ समा तृतीयगे ज्ञेया मंदा भानौ चतुर्थगे ॥ वक्रा स्यात्पंचषष्ठेर्के त्वतिवक्राष्टसप्तमे ॥ १७॥ नवमे दशमे भानौ जायते कुटिला गतिः॥ द्वादशैकादशे सूर्ये भजते शीघ्रतां पुनः॥ अदृश्यतां पुनोंके व्रजंत्यर्कगता ग्रहाः ॥ १८॥
यया त्रिविधदृष्टया त्रिविधो वेधस्तासां लक्षणमाह । वक्रगे दक्षिणेति । पृथक पृथक् त्रिविधा दृष्टिभीमादीनां पंचानां भवति । यतो भौमादयः पंच वक्रिणो भवति।शीघ्रगा भवंति । मध्यगा भवंति अतस्त्रिविधया दृष्टया त्रिविधो वेधः प्राक् लोके वेधत्रयं भवेत् इत्यत्र विशेषः । ग्रहः सव्यापसव्येन चक्षुषा वेधयेत्पुनः ॥ ऋक्षाक्षरस्वरादीस्तु सम्मुखे नांत्यमक्षरामिति एके आचार्याः । सव्यापसव्येन चक्षुषा नक्षत्रवर्णस्वरादीन्वेधयेत् । सन्मुखन ग्रहोत्यभं नक्षत्रमेव विध्येत् । तथा चास्मिन्नर्थे रणहस्तिसंज्ञग्रंथे श्लोकाः वेधमेव कथयति । “वं नृयुग्मं तथा ओ च कन्या रं स्वातिमेव च॥अश्विनी रोहिणीसंस्थोऽभिजितं हंति पापकः ॥ कं कुलीरं हरिं पंच चित्रा में लं च रेवती ॥ सौम्यस्थो हंति पापात्मा वैश्यं च पुरतः स्थितम्" इत्यादिसर्वत्रावगंतव्यम् । अथाचार्यों ग्रहगणितं विना ग्रहाणां मंदशीघ्रवक्रगतिलक्षणमाह सूर्यमुक्ता उदीयंत इति । प्रथमतो रविमंडलगता अस्तमयंति । ततो खेर्मुक्ता उदयंति । अर्कात् अर्काक्रांतराशितो द्वितीयस्था ग्रहाः शीघ्रगाः शीघ्रगतयो भवंति ॥अर्कात्तृतीयगास्तृतीयराशिस्थाः समाः समगतयः भानावकै चतुर्थशशिस्थे मंदा भवंति । समगतिभ्यो मध्यगतिभ्यो न्यूनागतिः अतो मंदगतयः। पंचमे षष्ठे सूर्ये ग्रहा वक्राः स्युः अर्थादर्के पंचमषष्ठराशिस्थे भीमादयः पंच वक्रगतयो भवति । केचित्तु रवेः सकाशात् नगाष्टके सप्ताष्टमस्थाने अतिवक्रा भवति । नवमे दशमे वक्राः स्युः भानौ ग्रहाणां कुटिला गतिर्जायते । द्वादशैकादशे सूर्ये ग्रहाः शीघ्रगा भवंति एतेन वक्रशीघ्रमध्यगत्या ग्रहाणां त्रिविधा दृष्टिर्भवति । अत एवोक्तं वक्रगे दक्षिणा दृष्टिरित्यादि ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥
राहुकेतू सदा वक्रौशीघ्रगौ चंद्रभास्करौ ॥ गतेरेकस्वभावत्वादेषां दृष्टित्रयं सदा॥१९॥कूरा वक्रामहाङ्कराः सौम्यावका महाशुभाः॥ स्युःसहजस्वभावस्थाः सौम्या क्रूराश्च शीघ्रगाः॥ २० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com