SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (५६) नरपतिजयचर्यानजभयखांश्च वर्णान् पश्चिमनक्षत्राधःपंचकोष्ठेषु लिखेत्। गसदचलान् पंचवर्णान् उत्तरनक्षत्राधः कोष्ठे लिखेत् ॥ ५॥ अथ पूर्वाशादितृतीयपंक्तौ त्रिकोष्ठे लिखनीयमाह । त्रयस्त्रयो वृषायेति । वृषादित्रीन राशीन् पूर्वदिक्कोष्ठे लिखेत् । सिंहादित्रीन दक्षिणकोष्ठे लिखेत् । वृश्चिकादित्रीन् पश्चिमायां लिखेत् । कुंभादित्रीन् उत्तरस्यां लिखेत्॥६॥ शेषेषु कोष्ठकेष्वेवं नंदादितिथिपंचकम् ॥ वाराणां सप्तकं लेख्यं भौमादित्यक्रमेण च ॥७॥ भौमादित्यौ च नंदायां भद्रायां वुधशीतग ॥ जयायां च गुरुः प्रोक्तो रिक्तायां भार्गवस्तथा ॥ ८॥ पूर्णायां शनिवारश्च लेख्यं चक्रेत्र निश्चितम् ॥ इत्येष सर्वतोभद्रविस्तारः कीर्तितो मया ॥ ९ ॥ ऊर्ध्वदृष्टी च भौमार्को ३१ केकरौ बुधभार्गवौ ४६॥ समदृष्टी च जीवेंदू ५२२ शनिराहू ७८ अधोदृशौ ॥ १० ॥ नीचस्थितोर्ध्वदृष्टिश्च उच्चैरधो निरीक्षयेत्॥ समश्च पार्श्वतो दृष्टिस्त्रिधा दृष्टिः प्रकथ्यते ॥ ११॥ अथ शेषेषु लिखनीयमाह । शेषेष्विति । शेषेषु चतुर्दिक्षु उद्धृतैकैकचतुःकोष्ठेषु सैकमध्यकोष्ठेषु प्रतिपन्नंदातिथिपंचकं क्रमेण लिखेत् । प्रतिपत्पूर्वकोष्ठे लिखनीया। द्वितीया दक्षिणकोष्ठे । तृतीया पश्चिमे । चतुर्थी उत्तरे पंचमी मध्ये । एवं षष्ठयादिनदापंचकं पूर्वाशादि लिखेत् । तथैकादश्यादिपंचकं पूर्वाशादि लिखेत् । एवं कृते पंचमी दशमी पौर्णिमेति त्रिपूर्णा मध्ये लिखिता भवंति । वाराणामिति । भौमादिक्रमेण वाराणां सप्तकं लेख्यम् । वारलिखनं नंदादितिथिना सार्द्धमुक्तं तेन किं येषु कोष्ठेषु नंदादयो लिखितास्तेष्वेव भौमादीन् लिखेत् । तत्र च भौंमें नंदाधो लिखेत् । बुधं भद्राकोष्ठके लिखेत् । गुरुं जयाकोष्ठे लिखेत् । शुक्र रिक्ताकोष्ठे लिखेत् । शनिं पूर्णातिथिकोष्ठे लिखेत् । पुनः रविं भौमेन सह । चंद्रं बुधं भद्राकोष्ठे लिखेत । वारांतं लिखेत्सर्वतोभद्रं संपूर्ण भवति । तथा च कविरेवाह । "इत्येष सर्वतो. भद्रप्रस्तारः कीर्तितो मया । पूर्वशास्त्रानुसारेण यथोक्तं ब्रह्मयामले" । सुगमम् ॥ ७॥८॥९॥ १०॥ ११ ॥ शन्यर्कराहुकेत्वाराः क्रूराः शेषाः शुभग्रहाः ॥ क्रूरयुक्तो बुधः क्रूरः क्षीणचंद्रस्तथैव च ॥ १२॥ यस्मिन्नृक्षे स्थितः खेटस्ततो वेधत्रयं भवेत् ॥ ग्रहदृष्टिवशेनात्र वामसम्मुखदक्षिणे ॥ १३ ॥ भुक्तं भोग्यं तथा क्रांतं विद्धं क्रूरग्रहेण भम्॥ शुभाशुभषु कार्येषु वर्जनीयं प्रयत्नतः॥ १४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy