SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। विधिना भेदप्रभेदाश्च ये ते जानंति फलं शुभाशुभमयं कालत्रये निश्चितम् ॥१॥ इदं प्रथममंगम् ॥ अथातः संप्रवक्ष्यामि चक्र त्रैलोक्यदीपकम् ॥ विख्यातं सर्वतोभद्रं सद्यः प्रत्ययकारकम् ॥१॥ ऊर्ध्वगा दश विन्यस्य तिर्यग्रेखास्तथा दश ॥ एकाशीतिपदं चक्रं जायते नात्र संशयः ॥२ ॥ अकारादिस्वराः कोष्ठेप्वीशादिविदिशि क्रमात् ॥ सृष्टिमार्गेण दातव्याः षोडशैवं चतुभ्रमम् ॥ ३ ॥ कृत्तिकादीनि धिष्ण्यानि पूर्वाशादि लिखेत् क्रमात् ॥ सप्त सप्त क्रमादेतान्यष्टाविंशतिसंख्यया ॥ ४ ॥ भेदा ये स्वरपञ्चकेति ॥ १॥ इति प्रथममंग समाप्तम् । अथातः संप्रवक्ष्यामीति । अथातोऽत्रानंतर्यार्थ । हंसचारानन्तरं सर्वतोभद्रनामचक्र प्रवक्ष्यामि । किंविशिष्टं त्रैलोक्यदीपकं दीप इव दीपकं त्रैलोक्यं दीपयति प्रकाशयति घटपटादिवत् । त्रैलोक्यदीपकं विख्यातं लोकप्रसिद्धं तेन च द्वीपदेशव्यापि। सद्यः प्रत्ययकारकम् । विचार्यमाणशुभाशुभकप्रतीतिकारकम् ॥ १ ॥ अथ चक्रन्यासमाह । ऊर्ध्वगा दश विन्यस्यति । सुगमम् ॥ २॥ अकारादीति । चक्रं प्राङ्मुख उपविश्य लिखेत् नैर्ऋत्ये तत्र स्वरा अकारादि अपर्यंताः स्वरा लेख्याः । कुत्रेत्याकांक्षयाईशादौ विदिशि क्रमात तत्र क्रमः। अकार ईशानकोणे आकार आग्नेये । इकारो नैर्ऋत्ये। ईकारो वायव्ये । पुनरुकार ईशानकोणे । अकारस्याधः उकारस्त्वाग्नेये । आकारस्याधः एवं षोडश स्वरान् ईशानादिचतुष्कोणेष्वेव विन्यसेत् । एवं लिख्यमानेषु स्वरेषु सृष्टिमार्गेण चतुर्भमं चतुरावृत्त्या स्वरलिखनं स्यात् ॥ ३ ॥ स्वरलिखनादनंतरं नक्षत्रलिखनमाह । कृत्तिकादीनीति स्वरलिखनकोष्ठकांतश्चतुर्दिक्षु सप्त सप्त लिखेत् । यथा तत्र पूर्वस्यां प्रथमपङ्क्तौ सप्त ७ तदधः पश्चात्पुनस्तदधोयाकोष्ठस्तदधः एक कोष्ठकं एवं चतुर्दिक्षु कोष्ठका उद्धृता ज्ञातव्याः। तत्र प्राक् सप्त कृत्तिकादीनि लिखेत् । मघादिसप्त दक्षिणस्यां लिखेत् । मैत्रादिसप्त पश्चिमायां लिखेत् । धनिष्ठादिसप्त उत्तरस्यां लिखेत् ॥४॥ अवकहडादिषु प्राच्यांमटपरताश्च दक्षिणे|नयभजखाश्च वारुण्यां गसदचलास्तथोत्तरे ॥ ५॥ त्रयस्त्रयो वृषाद्याश्च पूर्वाशादिक्रमाद् बुधैः ॥ राशयो द्वादशैवं तु मेषान्ताः सृष्टिमार्गतः॥६॥ अथ नक्षत्राधः कोष्ठलिखनमाह । अवकहडेति । अवकहडाः पंच वर्णाः नक्षत्राधः पंचकोष्ठकेषु प्राच्यां लिखेत्। मटपरताः पंच वर्णाः दक्षिणनक्षत्राधः पंचकोष्ठेषु लिखेत्। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy