________________
( ५४ )
नरपतिजयचर्या ।
पृथ्वीतत्त्वम् अष्टांगुली वहति । तत्र कर्तव्यता । स्वराभ्यासी षोडशांगुलं शंकुं हस्ते कृत्वा स्वराभ्यासं कुर्यात् वामे वा दक्षिणे वा वहति तत्र नासापुटसंलग्नं शंकुं कृत्वा परीक्षेत किं तत्त्वं वहति । अष्टांगुलसीमामात्रं यदि वायुः संचरति तदा पृथिवीतत्त्वम् । एवमपरेषां विचारात् ज्ञानात् प्रश्नं वदेत् ॥ ४९ ॥ अथ पुनः प्रश्ने मुष्टिमनोविषये धृतवस्तुनो वर्णज्ञानार्थ पृथिव्यादीनां वर्णमाह । पृथ्वी पीतेति । प्रश्ने विषयगतं पृथिव्यादिवर्णेन वर्ण वदत् सुगमम् ॥ ५० ॥
पीतवर्ण चतुष्कोणं लमध्यं पृथिवीपुरम् ॥ वमध्यं षड्दलाकारं श्वेतं वारुणमंडलम् ॥ ५१ ॥ रेफयुक्तं त्रिकोणं च रक्ताभं वह्नि मंडलम् ॥ अष्टपत्रं यमध्यस्थं हरितं वायुमंडलम् ॥ ५२ ॥ हमध्यं वर्तुलाकारं धूम्राभं व्योममंडलम् || पंचतत्त्वेषु भेदोयं कथितः पूर्वसूरिभिः ॥ ५३ ॥ मारणं मोहनं स्तंभं विद्वेषोच्चाटनं वशम् ॥ प्रेरणाकर्षणं क्षोभं भानुनाड्युदये कुरु ॥ ५४ ॥ शांतिकं पौष्टिक क्षेमं दिव्यौषधिरसायनम् ॥ योगाभ्यासादिकर्माणि कर्तव्यानि निशाकरे ॥ ५५ ॥ चंद्रसूर्यस्वराभ्यासं ये कुर्वति सदा नराः ॥ अतीतानागतं ज्ञानं तेषां हस्तगतं सदा ॥ ५६ ॥ इति सूक्ष्मस्वरोदयप्रकरणम् ॥ इति श्रीब्रह्मयामलीयस्वरोदये नरपतिजयचर्यायां हंसचारो नाम द्वितीयोऽध्यायः ॥ २ ॥
अथाचार्यः पंचतत्त्वानां भेदनामान्याह । पीतवर्णं चतुष्कोणमिति । पंचतत्त्वस्य पृथक् भेदा आगमे प्रोक्ताः । यरलवहैर्वर्णैर्मत्रबीजमुक्तम् । अत्र पार्थिवादिपंचतत्त्वरूपेण युंजांति युक्त्या किल यत्र यत्रेति । तत्र तत्र स्वरूपे प्रष्टुरुत्तरं दद्यात् । अत्र प्रश्ने चिंतितादिप्रश्ने पृथिवीतत्त्वेन पीतवर्णं चतुष्कोणं वस्तु वदेत् । जलतत्त्वेन षट्कोणं श्वेतवस्तु वदेत् । रक्ताभं त्रिकोणं वह्नितत्त्वेन । अष्टकोणं हरितं वायुतत्त्वेन वदेत् । धूम्राभं वर्तुलं व्योमतत्त्वेन वदेत् । अन्यदपि यत्र यादृशी युक्तिर्घटते स्फुरति तत्र स्त्रयुक्त्या प्रश्नोत्तरं दद्यात् । अन्यच्च योगशास्त्रे वामदक्षिणचंद्रसूर्यस्वरयोर्भेदेन शरीरमुक्तम् । “सर्वेषामेव जंतूनां मूर्ध्नि तिष्ठति चंद्रमाः । अधो भागे रविः प्रोक्तो मृत्युकाले विपर्ययात् । योनिः स्त्रीणां भवेच्चंद्रो नराणां सूर्य उच्यते ॥ उभौ तौ सृष्टिसंहारौ जंतूनां नात्र संशयः " । सुगमौ । नात्यंतिकं प्रयोजनिकौ ॥ ५१ ॥ ५२ ॥ ५३ ॥ ॥ ५४ ॥ ५५ ॥ ५६ ॥ इति श्रीपाठक श्रीहरिवंशात्मजमहादेव विरचितायां नरपतिजयचर्याटीकायां जयलक्ष्म्यां हंसचाराध्यायो द्वितीयः ॥ २ ॥
भेदा ये स्वरपंचके निगदिता नैसर्गिकाः कालजास्तेषां वालकुमारयौवनजरानैधन्यवस्थास्तथा ॥ ताञ्जानंति गुरूपदेश
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com