________________
जयलक्ष्मीटीकासमेता ।
(५३)
चंद्रमार्गेण सूर्येणास्तमनं यदि ॥ तदाऽतिगुणसंघातं विपरीते च विघ्नता ॥ ४७ ॥
"
अथ गर्भ स्वरबलमाह । गर्भप्रश्नेति । वामे दक्षिणे वा पूर्णे वहाते सात 'ऊर्द्ध वामाग्रतो दूत' इत्यादिलक्षणेन पूर्णगतः सन् पृच्छति । अस्मिन्गर्भे पुत्रः पुत्री वा भविष्यतीति । तदा पूर्णे सति अस्मिन् गर्भे पुत्रो भविष्यति । शून्यगतश्चेत्पृच्छति तदा अस्मिन् गर्भे कन्या भविष्यतीति वदेत् । युगे युग्ममिति । आदौ पूर्णगतेन प्रश्नः कृतः पश्चाच्छून्यगतो भवति तदा युगे युग्मं वदेत पुत्रकन्ये माक् पुत्रः पश्चात् कन्या आदौ शून्यं गतः पश्चात्पूर्णगतो भवति तदापि युग्मम् । आदौ कन्या पश्चात्पुत्रः । इदं वक्तुं स्वराभ्यासिनः सामर्थ्यम् । न तु पठनमात्रेण गम्योथः । गर्भपातश्च संक्रमे । वामो वा दक्षिणो वा पूर्णे वहन् पश्चादन्यपुटादतिक्रमति इति संक्रमणकालं विज्ञाय गर्भप्रश् जातकस्य मातुर्मरणं वदेत् । गर्भपातो वा ॥ ४५ ॥ अथान्यत् गमागमप्रभे । आयातीति । अथ दूरगतस्यागमनप्रश्ने प्रथमतस्तस्य पूर्णशून्यविचारेण शुभाशुभं ज्ञात्वा पश्चादागमनं वा निवर्त्तनं वा वदेत् । यदि दक्षिणे वामे वरुणतत्त्वं वहति । तदा मासेन पांथ आगमिष्यति "तत्रैवास्ते सुखं क्षितौ ” । पृथिवीतत्त्वे वहाते तत्रैव सुखमास्ते इति वदेत् । वायौ तत्त्वे वहति पांथोऽन्यत्र गतस्तस्मादिति वाच्यः । अनले वह्नितत्त्वे वहति पांथो मृत इति वाच्यम् । अत्रापि पूर्णशून्यलक्षणं शुभाशुभं भावि वा शकुनानि ज्ञात्वा मरणं वदेत् ॥ ४६ ॥ अथान्यद्वामदक्षिणयोः फलमाह । उदयश्चंद्रमार्गेणेति । वामे स्वरे वहति यद्युदयः सूर्यस्येति शेषः सूर्यस्वरे वहति अस्तमयः तदा गुणानां संघातो जायते विपरीते च विघ्नता । सूर्ये वहति सूर्योदयः चंद्रे वहति सूर्यास्तमनं तदा बहूनि विघ्नानि भवति । अथवा सूर्येणैवोदयास्तमने भवतस्तदापि बहुविघ्नता । अथ वामस्वरेणैव सूर्यास्तमयोदयौ स्तस्तदापि बहुविघ्नता ॥ ४७ ॥ पक्षतोतिक्रमाद्व्याधिर्द्विपक्षादिष्टनाशनम् ॥ पक्षत्रयमतिक्रम्य जायते मरणं ध्रुवम् ॥ ४८ ॥ वामे वा दक्षिणे वापि धराष्टांगुलदीर्घिका ॥ षोडशांगुलमापः स्युस्तेजश्च चतुरंगुलम् ॥ द्वादशांगुलदीर्घः स्याद्वायुव्यमांगुलेन हि ॥ ४९ ॥ पृथ्वी पीता सितं वारि रक्तवर्णो धनंजयः ॥ मारुतो नीलजीमूत आकाशो वर्णपंचकः ॥ ५० ॥
अथान्यदाह । पक्षेति । वामदक्षिणस्वरवशात् उक्तशुभपक्षतो यद्यशुभपक्षता भवति उदयं चंद्रमार्गेण सूर्येनास्तमनं यदीति शुभपक्षमतिक्रम्य विपरीतपक्षमाश्रित्य यद्युदयास्मयौ पक्षमतिक्रमणं तदा व्याधिः स्यात् । पक्षद्वयमतिक्रम्येष्टनाशनम् । पक्षत्रयमतिक्रम्य मरणम् ॥ ४८ ॥ अथ पृथिव्यादितत्त्वानां ज्ञानमाह । वामे वा दक्षिणे वापीति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com