________________
(५२)
नरपतिजयचर्याप्यात । शून्ये इदमापि शोभनम् । अथान्यदपि विरुद्धम् । पूर्णस्वरे पूर्ण फलम् । शून्यस्वरे शून्यं फलम् । पृथिव्यादित्रितत्त्वेन शुभं फलम् । व्योममारुतवाह्नभिरशुभं फलम्। तत्र पूर्णे व्योममारुतवह्नितत्त्वानि भवति तदा शुभप्रश्ने मध्यमं फलम् । लाभे स्तोकलाभः । अशुभ पूर्णम् । पूर्णगतस्य दूतस्य शुभप्रइने पृथिव्यादित्रितत्त्वे शुभं पूर्णम् । व्योममारुतादित्रितत्त्वे पूर्णगतस्य शुभप्रश्ने मध्यमफलम् । एवं शून्यगतस्य प्रष्टुः पृथिव्यादितत्त्वैः पंचभिः पूर्ण मध्यं कल्पयेत् । ननु पंचतत्त्वानि वह्नितत्त्वस्य शुभेऽशुभे च प्रधानता तत्र का गतिरित्याकांक्षया व्याख्यायते । एकघटीपर्यंतं वह्नितत्त्वस्य समयः तेन प्रागर्घघट्या वह्नितत्त्वे शुभं वदेत् । उत्तरार्द्धघट्याद्या दुष्टं वदेदिति । इदमपि स्वराभ्यासगम्यम् ॥ ४० ॥ श्वासप्रवेशकाले तु दूतो जल्पति वांछितम् ॥ सत्सर्व सिद्धिमायाति निर्गमे नास्ति सुंदरम् ॥ ४१ ॥ व्यवहारी खलो वादी द्विषदायादवञ्चकाः । कुपितः स्वामिचौराद्याः पूर्णस्थाः स्युर्भयंकराः॥४२॥ सूर्य चेद्विषमान्वर्णान् समवर्णान्निशाकरे ॥ वाहस्थो भाषते दूतस्तदा लाभोन्यथा नहि ॥ ४३ ॥ आदौ शून्यगतः पृच्छेत्पश्चात्पूर्णे विशेद्यदि ॥ तदा सर्वार्थसिद्धिः स्यादिति जानीहि निश्चितम् ॥ ४४ ॥
अथ वामदक्षिणस्वरवशादेव अन्यमापि प्रश्नमाह । श्वासप्रवेशकाले त्विति । अत्र प्रश्ने वक्तुरेव स्वायत्तता । स्वराभ्यासी स्वरमना वामदक्षिणस्वरप्रवेशकाले दूतस्य प्रष्टुवौछितं सफलं वदेत् । इदमवश्यं भविष्यतीत्यर्थः । निर्गमे वामदक्षिणस्वरयोनिनमे प्रष्टुवांछितस्य सुंदर नास्ति । इदं तव कार्य न भविष्यतीत्यर्थः । अत्रापि भावाभावयोः कालं पृथिव्यादितत्त्वेनैव वदेत् ॥४१॥ ४२ ॥४३॥ अथान्यदाह । आदौ शून्यगतेति । आदौ शून्यस्वरस्थानगतः पृच्छति पश्चात्पूर्णस्वरस्थाने उपविशति तदा सर्वार्थसिद्धिः स्यात्। जीवितमरणलाभालाभजयपराजयादिप्रश्ने सिद्धिरेव स्वस्य जीवन शत्रोमरणं स्वस्य लाभः शत्रोर्न लाभः । स्वजयः शत्रोः पराजयः। इत्यादिसर्वप्रश्ने सिद्धिया । वामे वाममिति। आदौ पूर्णगतः प्रष्टा यदि पृच्छति पश्चाच्छून्यस्थानगतः उपविशति तदा वामं वदेत् । जीविते मरणम् । मरणे जीवितम् । लाभे अलाभं जये पराजय इति वामशब्दार्थः ॥४४॥
गर्भप्रश्ने यदा दूतः पूर्णे पुत्रः प्रजायते ॥ शून्य कन्या युगे युग्मं गर्भपातश्च संक्रमे ॥४५॥आयाति वारुणे पांथस्तत्रैवास्ते सुख क्षितौ ॥ प्रयाति पवनेन्यत्र मृत इत्यनले वदेत् ॥ ४६ ॥ उदय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com