SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता । (५१) प्रष्टारं लक्षयेत्। असौ पृष्ठगो वामस्वरानुगतो वा इति वितर्कयेत् । तत्र निर्णीतार्थमाह । य ऊर्ध्वस्थो भवति दूतो यत्र कुत्रचित् आत्मनः सकाशात् उच्चपीठादिप्रदेशस्थःस वामगतःस्थाप्यः। वामस्थितः वामगत एव। अग्रगतश्चेत्पृच्छति तदापि वामभागगत एव बोद्धव्यः । तथा सेनैव प्रकारेण पृष्ठे पश्चात् स्थितः दक्षिणे च स्थितः अधस्तात् स्थितः आत्मनः सकाशात् नीचस्थ आत्मानं प्रष्टुतात् ऊर्ध्वस्थं बुद्धा एवं पृष्ठदक्षिणाधस्थं दूतं दक्षिणगतं ज्ञायते । एवं प्रश्नकाले पृष्ठदक्षिणगते उच्चस्थो वामगतः नीचस्थो वामाग्रतोपि दक्षिणः ॥ ३८ ॥ अस्यार्थः प्रश्नोत्तरेणैव फलयति । "सूर्ये च विषमान् वर्णान् समवर्णान् निशाकरे । वाहस्थो भाषते दूतस्तदा लाभोन्यथा नहि । पूर्णनाडीगतो दूतो यत्पृच्छति शुभाशुभम्” अथ व्याख्या । सूर्ये दक्षिणस्वरे वहति सति दक्षिणलक्षणगतो दूतोऽभिलषितप्रश्ने विषमान्वर्णान् वदति एकत्रिपंचादीन् तदा प्रष्टुवछितं पूर्ण स्यादिति वदेत् । एवं निशाकरे वामस्वरे वहति समवर्णान् द्विचतुःषष्ठाष्टादीन् स्वामिलिखिते प्रश्ने वदति तदाप्यभिलषितं भविष्यतीति वदेदिति । अन्यथा नहि । सूर्यस्वरे समवर्णान् वामे विषमान् इति अन्यथा विपरीतं वदेत् । पूर्णनाडीगत इति अस्यार्थोपि स एव शुभं कल्याणादि अशुभं संग्रामादि द्वयमपि पूर्णनाडीगतस्य प्रष्टुर्भवति । शून्य इति । ऊर्ध्वं वामाग्रतों दूत इत्युक्तलक्षणेन शून्यगतः सन् पृच्छति । तदा शुभाशुभमपि दृष्टं तन्नष्टं भवति न सिद्धिमायाति अत्र न संशयः कार्य इत्यर्थः ॥ ३९ ॥ पृथिव्यादित्रितखेन दिनमासाब्दकैः फलम् ॥ शोभनं च तथा दुष्टं व्योममारुतवह्निभिः ॥ ४० ॥ अथ शुभाशुभादीनां लाभालाभसमयज्ञानमाह । पृथिव्यादित्रितत्त्वेनेति । अथ प्रष्टुः वामदक्षिण पूर्णगतस्य लाभालाभजयपराजयादिप्रश्ने यदि पृथ्वीतत्त्वं प्रश्नकाले भवति अपूतत्त्वं वा तेजो वा स्यात्तदा शुभाशुभप्राप्तौ कालं वदेत् । सः काल इत्याह । दिनमासाब्दकैः फलम् । पृथ्वीतत्त्वे वहति दिवसेन फलं भविष्यति । अपतत्त्वे वहति मासेन फलम् । तेजारी तत्त्वे अब्देन फलम् | परन्तु तत्फलं शुभाशुभं किं जयाजयलाभालाभादि सर्वं यदा केनापि प्रश्नः कृतः । मया राजतो जीवनं कदा प्राप्तव्यं तदा पूर्णगतस्य दूतस्य पृथिवीतत्त्वे वहति दिनेनैकेन प्राप्तव्यं त्वया जीवनमिति वदेत् । अयमेव शोभनार्थः । तथा दुष्टं व्योममारुतवह्निभिः । स एव प्रष्टा यदि शून्यगतः सन् पृच्छति वामदक्षिणयोरेकतमे वहति व्योममारुतवह्नीनामेकतमे च तदा दुष्टं फलं वदेत् । जीवनं न प्राप्तव्यमित्येवं दुष्टमिति । अथ पूर्णस्वरे वहति पूर्णगतस्य प्रष्टुव्यममारुतवह्निभिः । दुष्टं वक्तव्यं नो वेति कल्पे विरोधात् । स एव प्रष्टा यदि शून्यग इति व्याख्यातं कवेरभिप्रायोऽयमेव । व्योमतत्त्वे वहति दिनैकेन फलम् । वायुतत्त्वे मासेन । वह्नितत्त्वे वर्षेण फलम् । तत्र कस्यापि प्रष्टुरभिलषितम् । मम शत्रुः कदा मृतो भविष्यति तत्र पूर्णगतस्य प्रष्टुः पृथिवीतत्त्वे दिनैकेन मृतो भविष्यति । अपतत्त्वे मासेन। तेजासे वर्षेण पूर्णगतस्य इदमपि शोभनम् । शून्यगतस्य प्रष्टुः शत्रुर्मृतो भवि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy