SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ( ५० ) नरपतिजयचर्या कामिनी ॥ ३४ ॥ चंद्रचारे विषं हंति सूर्ये बालां वशं नयेत् ॥ सुषुम्नायां भवेन्मोक्ष एको देवस्त्रिधा स्थितः ॥ ३५ ॥ अथान्यत् । शयनेति । यः सूर्येण पिचेचंद्रमिति । " शशांकं चारयेद्रात्रौ दिवा चाय दिवाकरः" । इति प्रथममुक्तम् । अत्र चंद्रोदयो रात्रौ भवति तं वामस्वरं दाक्षीणेन पिबति । कोर्थः । दक्षिणमेव दिवानिशं चारयेत् । अयमस्माकमर्थः । दिवा दाक्षस्वरस्योदयो भवति तेन दिवा वामस्वरेणैवाभ्यासं कुर्यात् । मकरध्वज इव भवति सुंदर इत्यर्थः । वाशब्द उभयत्र समुच्चयार्थः । शयनप्रसंगे युवती यदा आलिंगति तदा यदि वामो वहति तदा तं वामं दक्षिणस्वरेण पिवेत् । स्वरेणैव रतो भूयादित्यर्थः ॥ ३१ ॥ जीवेनेति । जीवेन प्राणेन जीवः प्राणो गृह्यते । कोर्थः । दक्षिणस्वरे वहति यदि वामो भवितुमुद्यतो भवति तदा दक्षिणेनैव वामं पिबेत् । वामस्वरोदये दक्षिणमेव स्थिरं कुर्यात्। एवं वामेन दक्षिणं पिबेत् । एवं कृते जीवेन गृह्यते जीवो व्याख्यातम्। एवं कृते वामस्वरस्थानगतो दक्षिणः दक्षिणस्थानगतो वामः तत्कृते बालाजीवांतकारकोयं स्यात् । बाला सुषुम्नामृत्युस्तस्यांतकारकः । कोर्थः मृत्युं जयतीत्यर्थः । वायुर्वर्द्धते वायुधारणादार्यवर्धते अमुमे वर्थमग्रे फलयति ॥ ३२ ॥ रात्र्यंतेति । रात्रेरवसानयामे निद्रां विहाय ब्रह्मवेत्ता योगाभ्यासं कुर्यादिति गुरुपरंपरा । तदा स्वराभ्यासं कुर्वन् ब्रह्म जयेत् । तत्र वेलायां सुषुम्नायां वेलायां मृत्योर्जीवहरो नरो भवति ॥ ३३ ॥ अर्कैदुयोग इति । तथा च योगशास्त्रे । “शिव अलिङ्ग्यते शक्त्या क्षणे यस्मिन् गते सति । तत्क्षणे दीयते चंद्रो मोहमायाति कामिनी ” ॥ ३४ ॥ चंद्रचार इति । सुगमम् ॥ ३५ ॥ " भुक्तमात्रे च मंदाग्नौ स्त्रीणां वश्यार्थकर्मणि ॥ शयनं सूर्यवाहेन कर्तव्यं सर्वदा बुधैः ॥ ३६ ॥ श्रांते शोके विषार्ते च ज्वरिते मूच्छितेपि वा ॥ सज्जनस्यापि बोधार्थ चंद्रचारं प्रवाहयेत् ॥ ॥ ३७ ॥ ऊर्ध्व वामाग्रतो दूतो ज्ञेयो वामपथे स्थितः ॥ पृष्ठे दक्षे तथाधस्तात्सूर्यवाहगतो मतः ॥ ३८ ॥ पूर्णनाडीस्थितां दूतो यत्पृच्छति शुभाशुभम् ॥ तत्सर्व सिद्धिमायाति शून्ये शून्यं न संशयः ॥ ३९ ॥ अथ दक्षिणस्वरे यत्कर्तव्यं तदाह । भुक्तमात्रेति ॥ ३६ ॥ श्रांते शोकोति । भुक्तमात्यक्तार्थेषु दक्षिणस्वरे वहति तानि तानि कुर्वीत । एवं श्रांत इत्यादिकर्मणि चंद्रवाह प्रवाहयेत् । वामस्वरेणैव कुर्यात् ॥ ३७ ॥ अथ वामदक्षिणस्वरयोः प्रयोजनमवश्यमेवेत्यर्थमाह । ऊर्द्ध वामाग्रत इति । अथ वामदक्षिणस्वराभ्यासी ज्योतिर्वित् दूतं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy