________________
जयलक्ष्मीटीकासमेता। (४९) वाच्यः। अर्थादितरः पराजयी । अथ रिक्तस्थे प्रष्टरि योधयोर्मध्ये यस्य पश्चान्नामग्रहणं कृतं स जयी वाच्य इत्यर्थः । पूर्णरिक्ततामग्रे कथयिष्यति ॥ २५ ॥ युद्धकाले यदा चंद्रः स्थायी जयति निश्चितम् ॥ यदा सूर्यप्रवाहश्च यायी च विजयी तथा ॥ २६ ॥ पार्थिवे सक्षतं युद्धं संधिर्भवति वारुणे ॥ विजयो वह्नितत्त्वेन वायौ भंगो मृतिस्तु खे ॥ ॥ २७ ॥ पूर्णनाडीगतं पृष्ठे शून्यमंगं तदग्रतः ॥ शून्यस्थाने कृतः शत्रुम्रियते नात्र संशयः ॥ २८ ॥ पूर्वोत्तरदिशोश्चंद्रे भानौ पश्चिमयाम्ययोः ॥स्थितस्तत्र जयी युद्धे स्थायी यायी क्रमेण च॥ २९ ॥ वामनाड्युदये चन्द्रः कर्तव्यो वामसंमुखः॥ सूर्यवाहे तथा सूर्यः पृष्ठदक्षिणगो जयी ॥ ३० ॥
अथ वामदक्षिणप्रवहतोर्यथा जयस्तथाह । युद्धकाले यदेति । युद्धकाले यदा चंद्रो वामः स्यात्तदा स्थायिवलं दक्षिणस्वरश्चेत्तदा यायिबलम् । स्थायियायिवलं स्वरप्रकरणे व्याख्यातम् ॥२६॥ अथ युद्धकाले प्रश्नकाले वा पृथिव्यादितत्त्वफलमाह। पाथवेति । खे आकाशतत्त्वे मृतिरिति शेषं सुगमम् ॥२७॥ अथ युद्धकाले पूर्णहीनवामदक्षिणयोः स्वरयोः कर्तव्यमाह । पूर्णनाडीगतामिति स्थायी वा यायी वा विजयाकांक्षी युद्धक्षेत्रे युद्धकाले घातकाले पूर्णस्वरं पृष्ठे कुर्यात् । शून्यनासापुटं तदंगं सकलं च वामं वा. दक्षिणं वा शत्रुसम्मुखे दद्यात् । एवं शून्यस्थानकृतः शत्रुम्रियते घातेनेत्यर्थः ॥२८॥ अथ वामस्वरयोर्वशादिग्बलमाह । पूर्वोत्तरदिशोरिति । चंद्रे वहति वामस्वरे वहति स्थायी योधः पूर्वदिशि उत्तरदिशि वा स्थितो भूयात् । यायी पश्चिमदक्षिणदिशि क्षेत्रे जयाय स्थिरो भूयात् ॥ २९ ॥ अथ वामदक्षिणे वहति भूवलमाह । वामनाडयुदय इति । युद्धकाले वामस्वरे वहति चंद्रो वामसम्मुखः कार्यः । दक्षिणे स्वरे वहति संग्रामकाले सूर्य पृष्ठदक्षिणस्थं कुर्यात् ॥ ३० ॥ शयने वा प्रसंग वा युवत्यालिंगनेपि वा ॥ यः सूर्येण पिवेचंद्रं स भवेन्मकरध्वजः ॥ ३१ ॥ जीवेन गृह्यते जीवो जीवो जीवस्य दीयते ॥ जीवस्थानगतो जीवो बालाजीवांतकारकः ॥ ३२ ॥राज्यंतयामवेलायां प्रसुप्ते कामिनीजने ॥ ब्रह्मजीवं पिबेद्यस्तु बालाप्राणहरो नरः ॥ ३३ ॥ अन्दुयोगे पुन्नार्योस्तस्मिन्काले रते सति ॥ तत्क्षणे दीयते चंद्रो मोहमायाति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com