________________
जयलक्ष्मीटीकासमेता।
(४७) स्तिर्यग्वहाति। तस्य प्रवाहवायोर्वायुतत्त्वमिति नाम । नभो वहति संक्रम इति । वामो वा दक्षिणो वा स्वोदये वहन् द्वितीयपुटादपि बहिनिःसरति । द्वितीयपुटे क्रमावर्द्धते। स्वपुटाक्रमाद्रजात । यावत्प्रवहकालस्तावत्तिष्ठति । उभयोः स कालोग्रे व्याख्यातव्यः। वामदक्षिणस्वरस्थान ग्रहानाह । वामस्वरमाह । “ विचंद्रशुक्रगुरखो वामनाड्यां धरादितः । रविभौमयमाः सर्पकथिताः सूर्यनाडिगाः” वामस्वरे वहति यावत्पृथिवीतत्त्वं वहति तावबुधग्रहस्योदयः। अप्तत्वे वहति चंद्रस्योदयः। तेजसि वहति शुक्रस्योदयः। वायुतत्त्वे वहात गुरोरुदयः । एवं दक्षिणवायौ वहति रविभौमयमराहवः । पृथिव्याधुदयक्रमण उदयंति । ग्रहोदये प्रश्ने ग्रहफलमादिशेत् ।यथा लग्नवर्तिनि बुधफलं तथा तदुदयोप। एवं सर्वग्रहेषु शुभाशुभफलम् ॥ १३ ॥ अथ पृथिव्यादीनां स्थितिकालमाह। धरायेकैकतत्वेति।सुगमम् ॥ १४ ॥ दक्षिणवामयोः प्राक् प्रवहन् समयमाह । आदौ चंद्रः सितेति त्रिषुत्रिषु प्रागुदयं स्वस्वपक्षयोः सितपक्षे प्रतिपत्रिषुप्राक् वामस्वरोदयः । परतस्त्रिषु प्राक दक्षिणस्वरस्योदयः । तत्परतस्त्रिषु तिथिषु वामस्वरस्योदयः तेन किम् । पंचदशसु तिथिषु प्राक् वामस्य त्रय उदयाः द्वौ दक्षिणस्य एवं तथा च । “ प्रतिपत्रिषु चंद्रस्य चतु
स्त्रिषु भास्वतः । सप्तम्यादित्रिषु विधोर्दशम्यादिषु भास्वतः। ततस्त्रिषु विधोः प्राक स्यादुदयः स्वेरवेरपि । स्वपक्षे अयमुदयः । प्रतिपत्प्रभृतिरवेज्ञेयः । पंचपंचघटीमानादेकैकस्य हि यो भवेत् ।आदौचंद्रस्ततः सूर्यः सितेन्येर्कस्ततो विधः। एवं क्रमेण स्वरयोः पक्षे द्वादशसक्रमाः । सुगमः ॥ १५ ॥
चंद्रोदये यदा सूर्यश्चंद्र ः सूर्योदये यदा ॥ अशुभं हानिरुद्वेगस्तदिने जायते ध्रुवम् ॥ १६ ॥ शशांकं चारयेद्रात्रौ दिवा चार्यों दिवाकरः ॥ इत्यभ्यासरतो नित्यं स योगी नात्र संशयः ॥ ॥ १७ ॥ यात्राकाले विवाहे च वस्त्रालंकारभूषणे ॥ शुभकर्मणि संधौ च प्रवेशे च शशी शुभः॥१८॥ विग्रहे द्यूतयुद्धेषु स्नानभोजनमैथुने ॥ व्यवहारे भये भंगे भानुनाडी प्रशस्यते ॥१९॥ होमश्व शांतिकं चैव दिव्यौषधिरसायनम् ॥ विद्यारंभं स्थिर कार्य कर्तव्यं च निशाकरे ॥ २० ॥
अथ विपरीतोदयफलमाह । चंद्रोदये यदा सूर्य इति । शुक्लपक्ष प्रतिपदादिषु यदि प्रायवरुदयस्तहिने हानिः अशुभं किमपि उद्वेगो वा निष्कारणात्।एवं कृष्णपक्षे चंद्रोदयः प्राक् तदापि हानिरुद्वेगादयः॥१६॥ अथ वामदक्षिणस्वरयोर्वशीकरणमाहाशशांक चारयेदितावामस्वरश्चंद्रो दक्षिणः स्वरो रविः । तेन दिनाधिपो रविः। रात्रिपतिश्चंद्रः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com