SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ (४६) नरपतिजयचर्यास्थितश्चंद्रो वामनाडीप्रवाहकः ॥ दक्षनाडीप्रवाहश्च शिवरूपी दिवाकरः ॥१०॥ अथ नाडिकानां नामानि । इडा पिंगलेति । सुगमम् ॥ ६ ॥ अथ वातानां नामानि । प्राणोपानति। एते दश वायवः । इडा नाडी हृदयाद्दक्षिणनासापुटाभिमुखी तस्यां प्राणो नाम वायुर्वहति । पिंगला नाम नाडी हृदयारामनासापुटाभिमुखी। तत्रोदानवायुस्तिष्ठति। गांधारी नाडी नाभेरधोगता तत्रापानो वायुः। जिद्विका नाम नाभिस्था तत्र समानो वायुः सममेव प्रवहति । व्यानो नाम वायुः सुषुम्नायां तिष्ठति । एवं नागादयः पंच पूषाद्याः पंचसु स्थिताः । एकोऽर्थः।अन्योः प्रथित एव । नासापुटव्याक्षिपुटव्यश्रोत्रपुटव्यमुखनाभिवायुब्रह्मरंध्रादिमार्गेभ्यो दशवायवः प्रभवति। अत्रार्थे सनकादियोगिनः प्रमाणम् । एषां प्रयोजनाभावात् सुगमार्थाः ॥ ७॥ अथ दशनाडीनां मध्ये तिस्रः प्रथिताः । ताभ्यो वायवो लक्ष्यते । ता आह । प्रकटो वायुरिति। सुगमम् ॥ ८॥ इडा नाडी इति। अस्याओंगे विधेयः ॥ ९॥ शक्तिरूप इति। अत्र वामनासापुटाद्यो वायुः संचरात स चंद्रः । दक्षिणनासापुटायो वायुः स सूर्यः । सूर्यरूपी शंभुमहेशः । शक्तिरूपी चंद्रः। ययोः शिवशक्ती उच्यते । शंभुः स एव हंससंज्ञः ॥ १० ॥ हकारो निर्गमे प्रोक्तः सकारोंतःप्रवेशने ॥ हकारः शंभुरूपस्थः सकारः शक्तिरुच्यते ॥११॥ एकैकघटिकाः पंच क्रमेणैवोदयति ताः ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १२ ॥ मध्ये पृथ्वी अधश्चाप ऊर्द्ध वहति चानलः॥ तिर्यग्वायुप्रवाहश्च नभो वहति संक्रमे ॥ १३॥ धरायेकैकतत्त्वस्य एकैकघटिकोदयः॥ अहोरात्रस्य मध्ये स्युस्तेन द्वादश संक्रमाः ॥१४॥ आदौ चंद्रः सिते पक्षे भास्करस्तु सितेतरे ॥ प्रतिपदादितो हानिस्त्रीणित्रीणि क्रमोदयः ॥ १५॥ तस्य लक्षणं वदति।हकारो निर्गम इति । अत्र शब्दार्था एवानंदकारिणः। प्रयोजनाभावात् मायाग्रस्तानाम् ॥ ११॥ अथ विज्ञानां ज्ञानहेतुप्रयोजनमाह । एकैकति ॥१२॥ अथैतयोः प्रवहतोः पंचकलानां ज्ञानमाह । मध्ये पृथिवीति । वामे वा दक्षे वा नासापुटे वायौ वहति पूर्णे पृथिवी नाम तत्त्वम् । नासापुटादधो यो वहति ओष्ठं स्पृशन् स वायुजलसंज्ञऊ वहति चानला नासापुटस्योर्ध्वभाग स्पृशन् यो वायुर्वहति तस्य वायोरनल इति नाम । तिर्यग्वायुप्रवाहश्चेति । दक्षिणस्वरो वामो वा द्वयोर्मध्ये स्वोदये यो वायु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy