________________
जयलक्ष्मी टीकासमेता ।
( ४५ )
हिस्वरूपिणी ॥ ततो दशोर्ध्वगा नाड्यो दश चाधोगतास्ततः ॥ २ ॥ द्वेद्वे तिर्यग्गते नाड्यौ चतुर्विंशतिसंख्यया ॥ कुंडलिन्या महाशक्तेः मूलमार्गा भवत्यमी ॥ ३ ॥ तेभ्यः सूक्ष्ममुखा नाड्यः शरीरस्यातिपोषिकाः ॥ शतानि सप्त जायंते सप्तोत्तराणि संख्यया ॥ ४॥ प्रधाना दशनाड्यस्तु दशवायुप्रवाहिकाः ॥ नामा - नि नाडिकानां च वातानां च वदाम्यहम् ॥ ५ ॥
अधुना पंचस्वरव्याख्यानानंतरं देहस्थवामदक्षिणस्वरयोराद्यमुनिप्रोक्तस्वरूपयोः हंसचाराख्ययोः श्लोकानां व्याख्यानं यथाज्ञानं करोमि । अथान्येति । अथशब्दोऽत्रानंतयें ॥ १ ॥ अथानंतरं पंच स्वरकथनानंतरं हंसचारस्वरूपेण शरीरस्थं स्वरोदयम् । दक्षिणवामस्वरोदयं वक्ष्यामि कुंडलिनीति । यथा सदा उदयति दक्षिणः स्वरो वामः स्वरो वा तथा व्याख्यास्यामि । शक्तीनां मध्ये महाशक्तिः । देहिनां नाभिस्थानं विद्यते । तस्य नाम कुंडलिनीति । किंरूपा अहिस्वरूपिणी । सर्पिणी च कुंडलीभूता विद्यते । सा देहस्थानां नाडीनां मूलभूता । तथाच । तत इति । ततस्तत्स्था कुंडलिनीभूता या दश नाड्य ऊर्ध्वगताः । दश नाड्योधोगताः ॥ २ ॥ द्वेद्वे तिर्यग्गते इति । तस्या एव कुंडलिन्याः ।
नायौ तिर्यग्गते ज्ञेये एवं चतुर्विंशतिनाड्यः कुंडलिनीशक्तेर्मूलमार्गाज्जाताः ॥ ३ ॥ ताभ्य इति । ताभ्यश्चतुर्विंशतिनाडिकाभ्यः सप्तोत्तराणि शतानि जायंते ताः शरीरस्य देहस्य अतिपोषिकाः पुष्टिकारिण्यः । यतः कृताहाराऽन्नादे रसवाहिन्यः । यत्र यत्र प्रतता विस्तृताः तत्रतत्र रसान् नयंति । तत्तन्मार्गगता रसाः शरीरं पुष्णंति ॥ ४ ॥ प्रधाना दश इति । तासां मध्ये दश नाड्यः प्रधाना विद्यते । तास्तु दशसंख्यानां वायूनां प्रवाहिकाः । ताभ्यो दश वायवः शरीराद्वहिः प्रभवति । तासां दशनाडीनां वातानां च दशानां नामानि वदामि ॥ ५ ॥
इडा १ पिंगला २ सुषुम्ना ३ गांधारी ४ हस्तिजिह्विका ५ ॥ पूषा ६ यशा ७ च व्यूषा ८ च कुहूः ९ शंखिनिका १० तथा ॥ ॥ ६ ॥ प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ नागः कूर्मः कृकश्चैव देवदत्तो धनंजयः ॥ ७ ॥ प्रकटो वायुसंचारो लक्ष्यते देहमध्यतः ॥ इडा पिंगला सुषुम्नाभिर्नाडीभिस्तिसृभिबुधैः ॥ ८ ॥ इडानाडीस्थितश्चंद्रः पिंगला भानुवाहिनी ॥ सुषुम्ना शंभुरूपेण शंभुसस्वरूपकः ॥ ९ ॥ शक्तिरूपः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com