________________
( ४४ )
नरपतिजयचर्या -
वाहवाहकाः । स्कंधौ गजा भुजौ रथ्या करांगुल्यो धनुर्धराः । वाद्यवादनकं पृष्ठे मंत्री जिह्वा द्विजा रदाः । दैवज्ञोक्षी नृपः प्राणं श्रवणौ हेरवारकाः । पताका छत्रचमरध्वजाः क्लेशकलापकाः । सेनोपकरणं सर्वं रोमावलिरिति स्मृतम् । प्रस्थानर्क्ष शीष्णि देयं १ श्रुतौ २ नेत्रे २ इयंद्वयम् । एकं १ घ्राणे रसनायामकें १ दत्तेषु सागराः ४ । पृष्ठे २ स्कंधे २ भुजें २ मुल्यां २ हृदये च द्वयंद्वयम् । एकैकमुदरे १ गुह्ये १ चत्वारि चरणद्वये । सर्वोपकरणं शेषं न्यासः सनास्वरूपकः । यदंगस्थाः क्रूरखेटास्तदंगो भिद्यते परैः। सौम्यग्रहा यदंगस्थास्तदंगो जयमाप्नुयात् । राहुस्थाने गतो वाहाद्रविनेमिरथाद्भयम् । पदातिभिः कुजस्थाने मंदस्थाने गजाद्भयम् । चातुरंगः कृता पीडा केतुस्थाने प्रजायते । यदंगे सकलाः क्रूरास्तंदगो मृत्युमाप्नुयात् । मिश्रामि श्रफलाः सौम्यमंदा वा यदि वास्तगाः । मंदे शिरोंधिघ्राणस्थे नृपः शस्त्राद्विनश्यति । अत्रैव राहुशिखिनी राज्ञो बंधनदायकौ । ददाति सक्षतं भौमस्तराणभंगदायकः । नाभेरधस्थिताः पापाऊद्धैः सौम्या जयावहाः । विपरीता मृत्युकराः सैनिकस्य नृपस्य च । मिश्रा भंगप्रदा युद्धे पापा यदि बलान्विताः। विजयो जायते राज्ञः सौम्याः पादबलाधिकाः ॥ १२ ॥ इति सेनाचक्रम् ॥ ९ ॥
योगे स्वकर्मतः पिंडे शरीराद्धे सुहृज्जनात् ॥ राशौ स्वकुलतो जीवे स्ववित्ताद् गृहतो रिपोः ॥ १३ ॥ वर्णे स्वस्वामिनोज्ञेयं मात्रायां स्त्रीजनात्फलम् ॥ एवं ज्ञात्वा वदेद्विद्वान् दिने फलं शुभाशुभम् ॥ १४ ॥ इति यामले दिन फलस्वरचक्रम् ॥ गुह्याद्गुह्यतरं सारमप्रकाश्यं प्रकाशितम् ॥ इदं स्वरोदये ज्ञानं ज्ञानानां मस्तके स्थितम् ॥ १ ॥ सूक्ष्मात्सूक्ष्मतरं ज्ञानं सुबोधं सत्यप्रत्ययम् ॥ आश्चर्यं नास्तिके लोके आधारमास्ति के जने ॥ ॥ २ ॥ दुष्टे च दुर्जने क्षुद्रे ह्यसत्ये गुरुतल्पगे ॥ हीने सत्ये दुराचारे स्वरज्ञानं न दीयते ॥ ३ ॥ शांत शुड़े सदाचारे गुरुभक्तैकमान से ॥ दृढकृत्ये कृतज्ञे च देय एष स्वरोदयः ॥ ४ ॥ इति यामले स्वरप्रशंसा ॥
योगेति ॥ १३ ॥ १४ ॥ इति दिनफलस्वरचक्रम् । कथितस्वरनिर्णयस्य सकलाज्ञे यस्योपयोग्यतामुपदर्शयति । गुह्याद्गुह्येति ॥ १ ॥ सूक्ष्मेति नास्तिके मिथ्यादि नो आश्चर्यं विस्मयकारणम् ॥ २ ॥ ३ ॥ ४ ॥ इति स्वरप्रशंसा । अथान्यत्संप्रवक्ष्यामि शरीरस्थं स्वरोदयम् ॥ हंसचारस्वरूपेण येन ज्ञानं त्रिकालजम् ॥ १ ॥ कुंडलिनी महाशक्तिर्नाभिस्था
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com