________________
जयलक्ष्मीटीकासमेता। (४३) बहुधा कविकालस्तु कथितोऽबलभूपतेः। एतां ज्ञात्वा कविं कुर्यात्संहति नृपति परम् ।। कविचक्रं प्रकर्तव्यं चतुरस्रं त्रिनाडिकम् । अग्निभात्रीणि ऋक्षाणि प्रवेशे रुद्रकोणतः । निर्गमे त्रीणि ऋक्षाणि मध्यात्माग्दिशि विन्यसेत् । स्तंभधिष्ण्यानि चत्वारि मध्यस्थानि चतुर्दिशि । प्रवेशे रुद्रचक्रादिकविचक्रमिदं भवेत् । कविः शिखी १ पिंगलिका २ कपोत्यात्प्रवेशभे । युद्धार्णवा तु निर्याणे उल्लेखी चटकी बकी । जीवपक्षस्थिते चंद्रे प्रवेशक्षेपि चाकुले । प्रवेशं निर्गमं ज्ञात्वा कवियुद्धं प्रकाशयेत् । कवियुद्धं यत्र धिष्ण्ये तदग्रॉस्ति पापकः । तदा भवेन्मार्गगमो मार्गरोधश्च पृष्ठगे । जीववारेऽभे शिख्यां समयुद्धं प्रजायते । स्वातावह्नि पिंगल्या यायिनो वह्नि भयम् । पुनर्वसौ भौमदिने कपोत्यां यायिनो मृतिः । युद्धार्णवायां मंदेऽह्नि वह्निभे म्रियते गमी। वैश्वे चंद्रेति वोल्लेखी हयं त्यक्त्वा पलायते । चटक्यां वारुणे ज्ञह्नि यायी तत्सैन्ययोर्मृतिः। बक्यां पुष्ये भृगुदिने यायी बंधनमाप्नुयात् । सदोषामपि निर्दोषामुल्लेखीं वर्जयेकवौ । उदयास्तौ स्वरौ येषां जन्मस्थः सप्तमो विधुः । तहिने ते भटाः सर्वे वर्जनीयाः कवौ रणे । क्रूराः प्रवेशभे यत्र तद्दिशि स्यात्प्रवेशनम् । सौम्याश्चक्रे निर्गमः शुभस्तदिशि निर्गमः । जन्मस्थः सप्तमश्चंद्रः पंचमो नवमोऽथवा । पुरस्य पुरनाथस्य तदा भंगं विनिर्दिशेत् । जन्मलग्ने जन्मराशौ ताभ्यां सप्तमकेपि च । पुरस्य पुरनाथस्य तत्काले भंगमादिशेत् । भूबलं पृष्ठतः कृत्वा पुरश्च पुरभक्षकम् । घातपातदिशं हित्वा कवियुद्धं समाचरेत् । निर्गमः स्थिते चंद्रे क्रूरखेटैबहिः स्थितैः । निशीथे वेष्टकान् सुप्तान निहन्युः पौरवासिनः । तीक्ष्णैः साधारणैः क्रूरैर्युद्धयोगे त्रिपुष्करे । केचिन्नरेशभात्केचित्स्थानभाचक्रमूचिरे। इति कविचक्रम् ॥ सूर्यभादिदुपर्यतं वह्निभागावशेषितम् । नर एकं १ भ्रमौ दौ २ तु शूलं पूर्णे विनिर्दिशेत् । नरेण द्विगुणा बुद्धिर्भमो दूरान्निवर्तते । शूले संजायते सिद्धिः संग्रामपि चतुर्विधे । रविसोमकुजाः सौम्यशनिजीवस्तमः कविः। प्राच्यादिदिनभात्रीणि न्यसेत्क्रूरस्थिते मृतिः । जन्मभेकिभे मृत्युभंगः स्यात्कुजराहुगे । शुभस्थानाश्रिते सिद्धिर्योधुस्तारामये कवौ । अथ भरवैगौरीसंवादे त्रिकोणसंघट्टे । “त्रिकोणं नवभिर्दडरेखाभिर्वेधसंयुतम् । कृत्तिकादिगते देवि चन्द्रः पापग्रहं त्यजेत् । अपसव्ये भवेच्चंद्रः सव्ये चैव दिवाकरः । एकरेखां गतौ तौ तु लोहं तत्र विनिर्दिशेत् । कृत्तिकादीनि सव्यानि मघादीन्यपि सर्वतः । मैत्रेयादीनि सव्यानि वसुसप्तापसव्यतः । सव्यापसव्यमेवं तु गणयेदुक्तकर्मणि । भौमज्ञगुरुयुक्तंदुरथवा राहुसंयुतः। अग्निज्वालां करिष्यति लौहपातैर्न संशयः। एकनाडी यदा प्राप्तौ राहकों केतुमंगलौ । तद्दिने जायते युद्धं चातुरंगे महाहवे । शन्यकों बुधचन्द्रौ वा जायते दारुणो रणः । कुजराहोर्यदा दृष्टिश्चंद्ररेखा युतौ यदि। एकनाडी समायातो चंद्रमोधरणीमुतौ । तत्र पश्चाद्रते जीवः पाषाणं जलपातनम्। उदयादिगता दंडा नवघ्ना नख २० भाजिताः । भुक्तास्त्वानक्षसंयुक्ताः शेषे तात्कालिका ग्रहाः॥९॥” इति संघदृचक्रम् । “सेना पादौ कुंतपरा नरांग तत्पतिः स्मृतः । उदरे खड्गिणः प्रोक्ता हृदये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com