________________
जयलक्ष्मीटीकासमेता।
(४१) ११ सूर्य १२ सीष्ट ८ तुल्यघटिका गतिरेककालः । रुद्रां ८ बुनाथ ५ शिखि ३ गुह्यक ७ राक्षसें ४ द्र १ वातां ६ तके ३ शजल ५ वह्निधनाधिपानाम् । चैत्रादिमासकपरिभ्रमणेन नूनं प्राहुविशुद्धमतयोऽवनिमेकवारम् । ऐंद्रे १ वायौ जले ५ रुद्रे ८ वारुणे ६ ऽनी ३ दुराक्षसे ४ । प्राच्यां १ तक ३ जले सौम्ये ७ चैत्रमासादिसंक्रमः। दिनं दिनाईयामं च प्रहराई तदग्रतः । एवं भुक्तिप्रमाणेन दक्षपृष्ठगतो जयी । अथ लोहपातज्ञानम् । संघटचके प्रागुक्ते कृत्तिकाद्ये त्रिकोणके । ग्रहयोगफलं वाच्यं नानापातसमुद्भवम् ॥ १॥ एकरेखागतैलोहं रावळकिशिखींदुभिः । मंदार्कशत्रुभिलॊहैं तेंदुभ्यां लोहमादिशेत् ॥ २ ॥ कृत्तिकात्रयरेखायां भानुभानुजराहवः। तत्र चक्रगतचंद्रो मेषे लोहं विनिर्दिशेत् ॥ ३ ॥ प्राजापते भृगुसूर्ययुक्ते चतुर्थनाड्यां खलु धीरचंदः । मेषोदये चाद्भुतवायुपातः सकृत्सकृच्चैव जलं प्रवर्त्तते ॥४॥सौम्ये रौद्रे तद्दिशो यातु रेखा जीवे भौमे भानुजे तत्रसंस्थाकुंभे मीने जायते चांबुपातश्चंचद्दानी गर्जते वासवश्च ॥५॥ पुष्याश्लेषास्थानयोर्या च रेखा तत्र स्थाने ह्यागतौ राहुकेतू । लग्ने कीटे संस्थितौ भौमचंद्रौ प्राहुश्चार्या निश्चितं वज्रपातः ॥ ६ ॥ पित्र्ये पूर्वे ११ । १ रुद्रदिकसंख्यरेखा भानुभौमो धीषणस्तद्गतश्च ॥सिंहे लग्ने जायते वह्निपातो मध्यं पादं न स्पृशेदंगनायाः ॥७॥ रक्ता कृष्णा एकरेखा ग्रहाः स्युः पिंगा रक्ता राशयःसंस्थिताश्च । अत्यद्भुतो जायते लोहपातो दिवसस्याः नूनमाहुर्मुनींद्राः ॥ ८॥ शनिस्तथा भास्कर एकरेखागतस्त्रिकोणे खलु एक एव । सिंहे च भानुर्मकरे शनिश्च उभे च लग्ने खलु शीघ्रलोहम् ॥ ९॥ असुरेंद्रस्य रेखाया रंध्र ९ दिकू १० सुत ५ सप्तमाः । चंद्रचांद्री स्थितौ तत्र वायुपातं विनिर्दिशेत् ॥ १० ॥ एकोनविंशरेखायां जीवसूर्यमहीसुताः । लग्नांशे प्रथमे लोहं द्वितीयांशे तु वज्रकम् ॥ ११ ॥ यत्र रेखास्थितः सूर्यो रेखायां तत्र चंद्रमाः । राहुस्तत्र गतश्चैव लोहपातं विनिर्दिशेत् ॥ १२ ॥ कृत्तिकाद्यष्टमीरेखा रव्यार्की यत्र संस्थितौ । तत्र स्थाने महालोह लग्नांशे यत्र वर्तते ॥ १३ ॥ यत्र रेखास्थितश्चंद्रो भूसुतो वापतिः कविः। जलजं यस्य लग्नांश ब्रूयावृष्टिं तदा - तम् ॥१४॥चक्रे त्रिकोणे खलु आयुरेखाः स्थिताः परा वा द्वयकृष्णखेटाः । तस्मिन्समायाति विधुदिरेखो वह्निर्धवः स्यात्समये कृशानोः॥ १५ ॥ आदौ चरांशे खलु लोहपातं मध्ये चरांशे सलिलं च वायुः॥ अंत्ये चरांशे सलिलं सवजं प्रसिद्धपातं कथितं त्रिकोणे ॥१६॥ शेषे स्थिरांशे कथयंति वह्नि मध्ये स्थिरांशे सलिलं च वायुः ॥आदौ स्थिरांशे कचलोहपातं उड्डीशवाक्यं कथयति तज्ज्ञाः ॥१७॥ एकरेखागतश्चंद्रो रविणा राहुणाऽसृजा ॥ जायते तदहयुद्धं दारुणं लोमहर्षणम् ॥ १८ ॥ शनिना यदि चंद्रः स्यादेकरेखागतस्तदा ॥ कवियुद्धाभिघाते च निर्दिशेदविशंकितः॥१९॥ चंद्ररेखागतः क्रूरः संग्राम सूचयेत्वचित्॥द्वौ चेदवश्यमादेश्यं त्रयश्चेत्सैन्यघातकाः॥२०॥अवश्यायां शुना युक्तं कुरखेटद्वयं त्रयम् ॥ एकरेखागतं चापि भवेदाहवसंस्थितिः ॥ २१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com