________________
जयलक्ष्मीटोकासमेता।
(३९) भटः । एकोनविंशभेप्येवं संग्रामे म्रियते भटः । एकविंशति २१ भे युद्धं दक्षपादादि नश्यात । पृष्ठे वा जायते घातस्तत्रक्षेत्रे मृतो भटः । चतुर्विंशतिनक्षत्रे योधभं भानुभाद्यदि । जन्मपादे च दिकसंख्ये तुलावृषभयोमतिः । द्वादशैकादशे १२।११ मृत्युर्मुहूर्ते मृगमीनयोः । मुहूर्त वर्जयेदेषां रणे द्वंद्वे विशेषतः । सूर्यभादशमे ऋक्षे द्वादशेऽथ चतुदेशे । तिथ्येकीवशञ्चतुर्विशे सूर्यभार्जियेद्रणम् । १० । १२ । १४ । १५ । २१ ॥२४॥ चतुभिर्घटिकाभिः स्यादुदयाद्योगिनी भ्रमः । प्राक् प्राच्यां १ धनदे २ वह्नौ ३ नैर्ऋत्ये ४ दक्षिणे ५ जले ६ । पवने ७ गिरिशे ८ त्येषां भ्रमत्येव पुनः पुनः । यस्तूदयाख्यां जानाति चातुरंगे जयी भवेत् । योगिनी जयदा पृष्ठे दक्षिणे च सदा भवेत्। अथ तत्कालवारोदयः। “यस्मिन्नहनि यो वारस्तस्य भुक्तिरुदाहृता । चतस्रो घटिका ४ स्तस्मात्तष्ठः पुनरुदेति च । घटिकाभिश्चतसृभि यस्तत्कालवासरः । यथा सोमात् शनिः षष्ठः शनेः सुरगुरुर्यथा । यस्य योधस्य यो राशिस्तस्य योधिपतिः स्मृतः ॥ तस्य वारे तदुदयप्रश्ने निष्फलतां व्रजेत् ॥ तत्कालदिननाथाश्चेरिणोश्चापि निष्फलम् । इंदयुद्धे रणे वापि प्रश्ने युद्धं पराजयम् । यथा यस्य जयो भंगो ज्ञायते च परिस्फुटम् । मेषादीनां च राशीनां ध्रुवकैः कथयाम्यहम् । रामाक्षा ५३ रामविशिखाः५३ षड्रामा ३६ जलधीषवः ५४ । तिथयः १५ खाब्धयो ४० द्यब्धि ४२ पंचाक्षाः ५५ पंचभूमयः ॥१५॥ षड्रामा ३६ षट् सरिन्नाथाः ४६ षडक्षा ५६ ध्रुवका अमी । मेषादीनांक्रमाज्ञया योधयोधुवयोयुतिः। कार्या वह्नि ३ हृता शेषात्फलं वक्ष्यामि संगरे। प्राक प्रहारी जयी दंदे द्विशेषे २ लभते जयम् । एकशेषे १ऽथवा शून्ये पश्चात् घाती जयं लभेत् । प्राक् प्रहारी पदान्पश्चगत्वाग्रे प्रहनिष्यति । पश्चाद् घाती पदान्पंच पश्चाद्गत्वा हनिष्यति । द्वंद्वयुद्धे विशेष च वक्ष्यामि किमपि स्फुटम् । यस्मिन् दिने निशानाथः समगो जन्मराशितः । यस्य योधस्य स जयं लभते नान्यभे मृतौ । जन्मपादोदये पृष्ठे दक्षे घातोऽभिजायते । तस्माद्भटो मृतो वाच्यो रणे कोटेऽथवा कवौ । सप्तविंशतिनक्षत्रे सूर्यभाद्यदि योधभे । संग्रामे मृत्युमाप्नोति जन्मपादोदये भटः॥" अथ दग्धतिथयो रणे वाः । “कोदण्डाद्विषमज्ञेषु सचतुर्थेषु नाड्यपि। द्वितीयाद्याः समा दग्धाः स्थिते कमलबोधने । २।४।६। ८।१०।१२ । एताश्च तिथयो दग्धा वर्जनीयाः सदा रणे । मेषलग्नेजमरणं कन्यायां गोगृहस्य च । स्त्रीपुंसोः कर्कटे मृत्युस्तुलायां कर्कटस्य च । सिंहस्य वृश्चिके मृत्युः कन्या मीने मृतिं लभेत् । तुलायां मिथुने मृत्युर्वश्चिकस्य वृषे मृतिः। धनुषो वृषभे मृत्युर्धनुषि मकरस्य च। तुलायां कुंभमरणं मीनस्य मिथुने मृतिः । अथान्यत्संप्रवक्ष्यामि संयोगाद्वारवर्गयोः । पक्षी मरणमाप्नोति संग्रामे रविवासरे । मार्जारमृत्युश्चंद्रह्नि भौमेह्नि मृगभूपतेः । शुनो बुधेह्नि मरणं नागानां गुरुवासरे। अश्वकानां भृगुदिने शनौ मृत्युर्गजाजयोः। अवर्गादिभटा युद्धे रविवारादिषु क्रमात् । तदर्द्धयामहोरायां वर्जयंति विशेषतः । उदयाद्दिमुहूर्तेन मेषवृश्चिकयोम॒तिः । परतो द्विमुहूर्तेन मिथुनावलयोप॑तिः । मुहूर्ते युग्मपरतो मरणं कर्कटस्य तु । कोदंडतौ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com