________________
जयलक्ष्मीटीकासमेता ।
(३३)
1
शुक्लपक्षवर्णः स्वराद्यस्तदा पक्षे जयपराजयौ तुल्यौ ॥ २ ॥ अयमेवार्थः प्रकटयति । एकपक्षाक्षर इति ॥ शुक्लपक्षवर्णा यदि कृष्णपक्षस्वराः योधयोः कृष्णपक्षवर्णाः शुक्लपक्षस्वराः एवं योधयोर्यदि तदा शुक्ले गौरो जयी भवति | कृष्णपक्षे कृष्णो जयी भवति । अत्र वर्णानामेव प्राधान्यम् न स्वराणाम् । यतः शुक्लकृष्णयोरपि वर्णत्वम् ॥ ३ ॥ अथ पक्षस्वरवर्णगौर कृष्णभेदतुल्ये सति जयप्रकारमाह । पक्षवर्णस्वरौरीत । स्वरवर्णगौरकृष्णैकत्वे सति यः स्वरासन्नवर्णो ह्रस्वो गौरो वा कृष्णो वा स जयी भवति । दीघों योधयोर्द्वयोः उच्चस्वरो दूरवर्णश्च एवं द्वयोर्यः स जयी भवति । अथोदाहरणम् । योधयोरेकस्य नामवर्णः ककारः ह्रस्वः । अन्यस्य खकारो द्वावपि तुल्यप्रमाणौ हस्वौ द्वावपि दीर्घौ तदा कवर्णो भटो जयी भवति । हस्वौ द्वावपि द्वावपि दीर्घौ यतः ककारः स्वरनिकटे ॥ अथवा द्वावपि दीर्घौ तदा खकारवर्णभटो जयी । अथवा खकारगकारवर्णाभ्यां भटयोर्नाम तदा स्वरासन्नः हस्वयोर्मध्ये खकारवर्णभटः गवर्णभटं जयति । दीर्घौ तौ तदा गकारभटः खकारभटं जयति । एवं वर्णस्वरचक्रे ह्रस्वदीर्घयोः स्वरासन्नदूरवर्णैर्जयं बलं दद्यात् ॥ ४ ॥
प्रमाणनामवर्णैक्यं युद्धकारकयोर्यादि ॥ तत्र युद्धे बलं देयं यायिस्थायिविभेदतः॥ ५॥ योधयोः सर्वभेदैक्ये स्वरे यूनि कुमारके ॥ यायी जयी तथा स्थायी बालवृद्धांतिमस्वरे ॥ ६ ॥ आद्ये तिथौ त्रयो वर्णा द्वौ द्वौ वै शेषयोर्यदि ॥ एवं तिथित्रये ज्ञेया वर्णसंख्या तिथिस्वरे ॥ ७ ॥ वर्णतिथ्यादितिथ्याख्याजन्महानिर्मृतिस्तथा ॥ भीर्जन्मनि रुजा हानौ मृतौ मृत्युर्न संशयः ॥ ८ ॥ इति यामले स्वरप्रकरणे विशेषनिर्णयः ॥
अथ शुक्लकृष्णपक्षादिबलमारभ्य दीर्घो दूराक्षरो जयी आसन्नार्थे तयोः सर्वभेदतुल्यतायां जयोपायमाह । प्रमाणनाम वर्णेति । सर्वभेदतुल्यतायां स्थायियायिभेद एव जयोपायः अथ सर्वभेदजये यस्याधिको न जये भेदलाभो भवति । तथा चायं द्वंद्वयुद्धं कारयेत् । स्वस्य योधस्य बहुभेदबलानि देयानि पश्चात्स्थायियायिभेदेनाधिकं कुर्यात् ॥ ५॥ अथ स्थायियायिबलमानमाह। योधयोः सर्वभेदेति । द्वयोर्योधयोः पूर्वोक्ते सर्वजयभेदैक्ये तुल्यसति यायी जयी भवति । कुत्र जयी भवतीत्याकांक्षायां यूनि कुमार के स्वरे सति तत्काले नाडीस्वरे यूनि कुमारे वा प्राप्ते यायी बलमाश्रयेत् । बालवृद्धान्तिमे बालवृद्धमृतस्वरे युद्धकाले स्थायी जयति । स्थायी बलं समाश्रयेदित्यर्थः । पुनः स्थायियायिबलं पुनरुक्त्या प्रकटयति । कुमारयुवयोर्यायी जयी भवति नापरः बालवृद्धांतिमे स्थायी जयी भवति जयिनोऽजयिनो जयपराजयावेवम् ॥ ६ ॥ अथ सर्वकाले सर्वकार्ये तिथिविशेषमाह । आद्ये तिथाविति ।
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com