________________
(३४)
नरपतिजयचर्यापश्चात्तिथिप्रधानस्वरो नोक्तः । अधुना उच्यते । अकारे नंदास्त्रयः । तत्राकारादिकोष्ठे सप्त वर्णाः । अकछडधभवाः। तत्र प्रतिपदि अकछा वर्णास्त्रयः । षष्ठयां डधौ वौँ । एकादश्यां भवौ वौँ ॥ इति विभागः । एवमिकारादिषु तिथीनां विभागः ॥७॥ अथास्मिन् चक्र को विचार इत्याह । वर्णतिथ्यादि इति । तिथिवर्णादौ स्वरचक्रे तिथ्याख्यातिथीनां तिसृणामाख्या नाम भवति। किं तन्नामेत्याह । जन्महानिर्मृतिस्तथा। अद्यतिथिरेव जन्मनाम भवति । द्वितीयस्य हानिसंज्ञा तृतीयस्य मृतिनाम । एतदुक्तं भवति। अकछा यस्य नामवास्तस्य प्रतिपजन्मसंज्ञा । षष्ठी तस्य हानिसंज्ञा । एकादशी मृतिः। यस्य डधौ वर्णौ तस्य षष्ठी जन्मसंज्ञा । एकादशी हानिः । प्रतिपन्मृतिः । यस्य भवौ वर्णों तस्यैकादशी जन्मसंज्ञा । प्रतिपद्धानिसंज्ञा । षष्ठी मृतिः । एवमिकारादिषु वर्णतिथिसंज्ञा कल्प्या। अथ त्रयाणां फलमाह । भीर्जन्मनि। जन्मसंज्ञतियौ भर्भिवति । संग्रामाघशुभकर्मणि हानौ तिथौरुजौ भवंति।मृतौ तिथौ मृतसंज्ञेतिथौ मृत्युभवति।अथसर्वासां तिथीनामनिष्टफलश्रवणात् किमपि कर्म न कर्तव्यमिति। कालत एव नास्ति । तत्र तिथिर्नास्तीति विचार्य कवेरभिप्राय व्याख्यास्यामाति । आये तिथौ त्रयो वर्णाः तिथिचक्रमिदं नामवर्णवशात् । मृतसंज्ञेषु तिथिषु जन्महानिमृतिसंज्ञातानष्ट दष्टरुग्णशत्रुसमागमादिषु मृततिथिफलमिदं बोद्धव्यमिति ॥ ८ ॥ एतावत्स्वरप्रकारचक्राणि समाप्तानि ॥
यदुक्तं यामले तंत्रे ज्ञातं गुरुप्रसादतः ॥ स्वरादिनफलं वक्ष्ये पुंसां कर्मप्रकाशकम् ॥१॥ योगपिंडक्षराश्याख्यजीवखेटाक्षरस्वरान् ॥ उत्पाद्य नामतश्चाष्टौ मात्रांतान् स्थापयेत्क्रमात् ॥ ॥ २ ॥ तस्याधस्ताल्लिखेच्चाष्टौ द्वादशाब्दादिकान्स्वरान् ॥ स्वस्वभोगेन संयुक्तान् भोगश्चैकादशांशकः ॥३॥ यथोत्तरबला योगादिकाः कालस्वरास्तथा ॥ कालोदयस्वराश्चापि ज्ञातव्याः स्वरवेदिभिः ॥४॥ अकारादिस्वराधःस्थां संख्यां वेद ४ प्रमाणिकाम् ॥ विन्यस्य क्रमयोगेन ते च विंशोपकाः स्मृताः॥५॥
अथ नामजकालजस्वरमुत्पाद्य तैः षोडशस्वरैर्दिनफलं वक्तुं दिनचर्याप्रकारमाह । यदुक्तमिति । सुगमम् ॥ १ ॥ योगपिंडक्षेति । सुगमम् ॥२॥ तस्याधस्तालिखेदिति। आदौ योगस्वरं स्थापयेत् । ततः पिंडक्षराश्याद्यान् स्थापयेत् । तेषामधो द्वादशाब्दादिकालजान् स्थापयेत् तत्र योगस्वरकोष्ठकाधः द्वादशाब्दकालजं स्वरं स्थापयेत् । पिंडस्वरादधो वार्षिकस्वरं स्थापयेत् । नक्षत्रस्वराधोऽयनस्वरं स्थापयेत् । राशिस्वराध ऋतुस्वरं स्थापयेत् । जीवस्वरादधो मासस्वरं स्थापयेत् । ग्रहस्वरादधः पक्षस्वरं स्थापयेत् । वर्णस्वरादधः तिथिस्वरं स्थापयेत् । मात्रास्वरादधो नाडीस्वरं स्थापयेत् । तद्धः किं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com