________________
जयलक्ष्मीटीकासमेता। (३१) स्युः स्त्रियो युग्मस्वरान् विदुः ॥ स्वस्वस्वरोदये जाते पुंसां स्त्रीणां बलं भवेत् ॥ ९॥ गर्भार्थे पुंस्वरे पुत्रः कन्या कन्यास्वरोदये । युग्मे युग्मं क्षयं नष्टे मातुर्मृत्युश्च संक्रम॥१०॥धुनाडीस्वरयोः पुंसोः पुंयुग्मं स्त्रीयुगं स्त्रियोः ॥ तयोस्तु पुस्त्रियोः पुंस्त्री युग्मं गर्भे विनिर्दिशेत् ॥ ११ ॥ इति यामले तात्कालिके स्वरचके प्रश्नभेदाः॥
अथ बालादिस्वरबलमाह । बालोदयेति ॥ ४ ॥ कुमारेति ॥ ५॥ युवोदयेति ॥ ६॥ वृद्धोदयोति ॥ ७ ॥ मृतोदयोत ॥ ८॥ अथ स्वराणां संज्ञांतरमायप्रश्नमाह । ओजस्वरा इति । ओजस्वराः अ उ ओ एते त्रयो विषमाः पुमांसः पुरुषाः। समस्वराः इ ए अन्येपि समस्वराः योषित् स्त्रीसंज्ञकाः । स्वस्वस्वरोदये विषमाख्यः पुरुषस्वरोदये पुंसां बलं भवति । ख्याख्यसमस्वरोदये स्त्रीणां स्त्रीजातीनां बलं भवति । एतावत् । स्वस्वस्वरोदये तत्तदाख्यकार्याणि सिद्धिं यांति ॥ ९ ॥ तद्बलात् पृथक् प्रश्नमाह गर्भार्थे इति ॥ प्रष्टा पृच्छति । अस्मिन् गर्भ पुत्रः पुत्री वा भविष्यति तस्मिन्सति तत्काले अकारस्य उकारस्य ओकारस्योदयो भवति तदा पुत्रो भविष्यतीति वाच्यम् । तत्काले इ ए अनयोरुदयस्तदा गर्भप्रश्ने कन्या वाच्या। युग्मे युग्ममिति । पुख्याख्यस्वरोदये युग्मं वदेत् । नष्टे स्वरोदये अस्तमिते पापविद्ध गर्भस्य नष्टता वाच्या । संक्रमे पुरुयाख्यस्वरोदये समाप्तौ मातुर्मुत्युर्वाच्यः॥ १० ॥ अथ युग्मस्वरोदये प्रकारमाह । धुनाडीति । शुस्वरस्तिस्थिस्वरः। नाडीस्वरस्तत्काले पंचघटिकात्मकांतरोदयस्वरः तौ यदि विषमौ पुंसंज्ञको भवतः तदा पुत्रद्वयं वदेत् एवं स्याख्यौ दिनस्वरनाडीस्वरौ तदा कन्याद्वयं वदेत् ॥ तौ यदि पुस्त्रियौ तयोरेकः पुमान् एकास्त्री तदा पुत्रकन्ये भवत इति वदेत् । अनयोरेकस्मिन्नष्टे तस्य नष्टता स्वरस्य नष्टता । अस्तमितलक्षणेन ग्रहवेधेन वा ॥ ११ ॥ इति नाडीस्वरे प्रश्नभेदाः॥
जन्मः जन्मपादो यस्तद्वर्णे योक्षरः स्वरः ॥ तेन नाडीस्वरो ज्ञेयः स्वभावः प्राणिनामिह ॥१॥चपलः कातरो मूर्खः कृपणश्चाजितेंद्रियः॥ असत्यो बहुभाषी च जातो बालस्वरोदये ॥ २॥ व्यवसायी कलाभिज्ञः स्त्रीरतः सुभगः सदा ॥ दीर्घायुविग्रही शरः कुमारोदयसंभवः॥३॥ सर्वलक्षणसंपर्णो राजा भवति धार्मिकः ॥ सार्वकालं जयी युद्धे जाते युवोदये शिशुः ॥४॥ स्त्रीजितो धार्मिकः कामी विवेकी स्थिरसाहसः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com