________________
( ३० )
नरपतिजयचर्या ।
देवदत्तस्य पंचमी दिकू उत्तरा देवदत्त उत्तरां यात्रां युद्धे विवादे च सर्वदा वर्जयेत् । संग्राम सेनामध्ये तां दिशं न समाश्रयेत् ॥२॥ अथ दिक् स्वरोस्तमिते प्रश्नफलमाह । पृच्छक इति ॥ ३ ॥ इति दिशास्वरचक्रम् ।
तिथ्यादावुदयं याति तिथिस्वराद्घटीस्वरः ॥ बालस्वरादिकः प्रश्न फलं तस्य वदाम्यहम् ॥ १ ॥ तिथिभुक्तघटी संख्यां कृत्वा पलमयीं ततः ॥ ऋक्षवह्नि ३२७ हृते शेषे स्वरस्तत्काल संभवः ॥ २ ॥ यदुद्दिश्य कृतः प्रश्नः फलं तस्य प्रजायते ॥ यत्र नोहिश्यते किंचित्तत्र प्रष्टुः शुभाशुभम् ॥ ३ ॥
तिथ्यादाविति । तिथ्यादौ तिथिप्रारंभसमये तदादितो यः तिथिस्वरः तस्मात्स्वरासार्द्ध | ५ |२७|| पंचघटी। स्वर उदयति चेत्प्रष्टुर्यस्य बालकुमारादिलक्षणो घटीस्वरो भवति तस्य प्रष्टुः फलं ब्रवीमि ॥ १ ॥ तत्करणमाह || तिथिभुक्तघटीति । चैत्रशुक्लप्रतिपदि अस्वरस्योदयः । तिथिभुक्तसंख्या घटयः पंचदश १५ तस्य पलानि नव शतानि ९०० ऋक्षवह्नि ३२७ हृतानि लब्धं स्वरद्वयम् २ शेषम् ३४६ शेषे अकारात्तृ
स्वरः उदितः यदि देवदत्तेन प्रश्नफलवक्तृसमीपात् प्राकूदक्षिणे पश्चिमे वा उत्तरेऽवस्थितेन प्रश्नः कृतः सर्वतोभद्रचक्रोक्तलक्षणेनास्तमिता दिक् । यत्कार्यमुपलक्ष्य प्रश्नस्तदा तत्कार्यहानिर्वक्तव्या । संग्रामादिसाहसकर्मणि भयभंगः । युद्धे मृत्युनैरुज्यप्रइने मृत्युः इत्यादीनि वदेत् ॥ २ ॥ अथवा सा दिक बालाद्या तदर्थमाह । यदुद्दिश्य इति । यदि देवदत्तेनान्यमुद्दिश्य प्रश्नः कृतः यज्ञदत्तस्येदं कार्यं भविष्यति । तदा यज्ञदत्त स्वरवशेन बालाद्यादिद्दिशमवधार्य फलं ब्रूयात् । यदि लाभादिकं नोक्तं कस्याप्यभिधानमपिन । तदा देवदत्तस्यैव नामस्वरवशेन अस्तमितचाला दिदिशं ज्ञात्वा फलं ब्रूयात् ॥ ३ ॥
बालोदये यदा पृच्छा लाभार्थे स्वल्पलाभदा ॥ रुजाते चिररोगं च गमे हानिः क्षयं रणे ॥ ४ ॥ कुमारोदयवेलायां लाभो भवति पुष्कलः ॥ रुजो नाशं जयं युद्धे यात्रा सर्वत्र सिद्धिदा ॥ ५ ॥ युवोदये भवेद्राज्यं क्लेशच्छेदं च तत्क्षणात् ॥ संग्रामे शत्रुहंता च यात्रा च सफला भवेत् ॥ ६ ॥ वृद्धोदये न लाभः स्यात् क्लेशिनां क्लेशवर्धनम् ॥ संग्रामे भंगमायाति यात्रायां न निवर्तते ॥ ७ ॥ मृतोदये यदा प्रष्टा पृच्छति एवं प्रयोजनम् ॥ तत्सर्व मृत्युदं ज्ञेयं युद्धे मृत्युः सभंगकः ॥ ८ ॥ ओजस्वराः पुमांसः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com