SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ (२६) नरपतिजयचर्याइदं तात्कालयुवास्वरप्राप्तपि लक्षणं समाचष्टे । तत्काले मातृकेति॥१८॥ऋताविति। तत्काले विद्यावादादिचतुर्विधयुद्धकाले नामजो मात्रिकः स्वरः स्वस्य पंचमस्वर ग्राह्यः। मात्रास्वरवशेन युद्धकाले नाडीस्वरस्योदयः स्वस्य युवा स्वराख्यो भवति । शत्रोमेताख्यःएवंसति युद्धं कुर्यात् जय एव स्यात्।अत्रोदाहरणम्।देवदत्तविराजयोर्युद्धे तत्काले नाडीस्वरे अकारे प्राप्ते इकारोमात्रास्वरयोबलेन देवदत्तस्याकारो युवा विराजस्याकारो मृत्युस्वरः एवं लक्षणे तत्काले प्रारभेाद्धामति सर्वथा देवदत्तस्य जयःअथामयोर्जयकाले दिनस्वरायेाकारोदयःदकारवकारयोर्वर्णस्वरयोरोकार अकारश्च द्वयोवृद्धकुमारा रख्यातदशाजयो विराजो देवदत्तं जयाताअथ देवदत्तस्य ग्रहस्वर एकारः।तबलात् कृष्णपक्षे अकारस्योदयः स वृद्धः शुल्के इकारस्योदयः स मृतस्वरः मृतायदो जयप्रदः। देवदत्तस्य जीवस्वर ओकारःतद्बलात् वैशाखभाद्रपदमार्गेषु अकारस्य उदयः ते मासा कुमाराख्याः । युद्धे बलं देवदत्तस्य । आषाढश्रावणाश्विनमासेषु इकार उदयति जीवस्वरबलाधुवाख्या मासाः युद्धे देवदत्तस्य जयदाः। चैत्रपौषयोस्तूकारोदयः तौ जीवस्वरबलाद्वदौ देवदत्तस्य युद्धे भंगप्रदौ, ज्येष्ठकात्तिकमास एकारस्योदयः जीवस्वरबलान्मृत्युमासौ देवदत्तस्य युद्धे मृत्युदौ । इति मासि बलाबलम् । देवदत्तस्य रेव. तीप्रथमपादजन्मसमयत्वात् मीनराश्यधिष्ठितत्वात् राशिस्वर ओकार एव तबलात् ऋतुस्वरेऽकारोदये कुमारोदयः तत्र सक्षतो जयःऋतुस्वरे इकारे युवाख्ये अक्षतो जयः उकारे ऋतुस्वरोदय वृद्धाख्ये युद्धे देवदत्तस्य पराजयः। एकारे ऋतुस्वरे प्राप्ते राशि स्वरबलात् मृत्युः । देवदत्तस्य नक्षत्रस्वरोऽकारः अकारस्वरबलात् अस्वरो दक्षिणे स्वामीति न्यायात् । अयनस्वरो बालः। दक्षिणस्वरः कुमारः। बालायनस्वरे युद्धे भंगः। कुमारस्वरे सक्षतो जयः।अब्दे पिंडस्वरा ज्ञेया इति न्यायात् देवदत्तस्य पिंडस्वर इकारः तद्धलाद्वार्षिकाकारस्वरोदये मृत्युस्वरोदये तद्वर्षे युद्धे मृत्युः एवसिकारस्योदये बाले पराभवः । उकारे वार्षिकस्वरोदये कुमाराख्ये सक्षतो जयः । एकारे वार्षिकस्वरोदये सर्वजयः।ओकारे वार्षिकस्वरे वृद्धाख्ययुद्धे पराजयः।अथ देवदत्तस्य योगस्वर उकारः तदशाद्विदशवार्षिकस्वरे उकारे बालसंज्ञके युद्धे पराजयः अकारे द्वादशवार्षिके पिंडस्वरात् कुमाराख्ये सक्षतो जयः। इकारे द्वादशवार्षिकस्वरे योगस्वरात् युवाख्ये युद्ध सर्वजयः उकारे द्वादशवार्षिकोदये योगस्वरबलादृद्धाख्ये सक्षतः पराभवः। एकारे द्वादशवार्षिकस्वरोदये मृताख्ये सक्षतो मृत्युः । एवं बलानि युद्धे देयानि ॥१९॥ अथ सर्वस्वरबलाद्वर्णस्वरबलमेव सर्वकाले सर्वस्माद्बलवत्तरं बलमाचष्टे । सर्वकालं बली वर्ण इति।एतावता वर्णस्वरबलादेव सर्वकालेषु द्वादशवार्षिकायनमासपक्षदिननाडीषु सर्ववादजये बलावलं कुर्यात्॥२०॥पुनरेतलं समर्थयन्नाहायथापदेति।स्वराः वर्णवलेन बलिनः अबलेनाबलाः॥२१॥ अथ तेषां कथनेन किं प्रयोजनमित्याह साधनं मंत्रयंत्रोत॥२२॥ वर्णस्वरबले सर्व कर्तव्यं च शुभाशुभम् ॥ सिद्धिदं सर्वकार्येषु युद्धकाले विशेषतः ॥ २३॥ मारणं मोहनं स्तंभ विद्वेषोच्चाटनं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy