________________
जयलक्ष्मीटीकासमेता। (२५) आकारादिकारः । इकारादीकारः । ईकारादुकारः । उकारादेकारोधिकः स्वरः। एकारादोकारः । एवमग्रारयोरपि । अथायमर्थः कथं व्याख्यातः। कविप्रोक्तो न भवति । तत्रोच्यते । मृतो वृद्धस्तथा बाल इत्यत्र यथोत्तरबलाः कथिताः । तेनार्थेनैव कविना कथं नोक्तम् । अत्र नाम्नीति हीनस्वरता उक्ता नतु नाम्नि बालादिकावस्था होनाधिकोक्ता । स्वराधिके नाम्नि जयः उभयोर्भटयोर्यस्य नाम्नि हीनस्वरो भवति सोधिकस्वरान्मृत्युमेति । उभयोस्तुल्यमेव फलम् । अत्रोदाहरणम् । एकस्य एक एव नाम्न आद्यवणे अपरस्य द्विस्वरः अधिकस्वरात् हीनस्वरो म्रियते । स्वराधिकेऽयमेव जयः। तथा एको द्विस्वरः अन्यस्त्रिस्वरः तथापि अधिकस्य जयः। तथा व्याख्यानमस्वरा आकारादयो यथोत्तराधिकाः । अमुमर्थ छंदोलक्षणज्ञा जानांत । समनाम्नि भवेत्साम्यम् । समस्वरे नानि द्वयोर्भटयोस्तुल्यमेव फलम् । तत्तुल्यतामाह । संधिर्जयपराजयौ । एकद्वित्रिचतुःपंचमातृकैर्ययोर्नाम्रोस्तुल्यता यदि तदा समं भवति मैत्री । अथवा संग्रामे जयः । संग्रामादुभयोरपि पराभवः । पलायनमेव पराभवः । इयमेव समता । तथा च समरसारे "हानि मृति विजयमाह तथाधिका सातुल्या जयं च समरं यदि वापि संधिम्" तुल्यमानेत्यर्थः । तथा च मत्रिकायाम् । एकमात्रो द्विमात्रश्च त्रिचतुःपंचमात्रिकः । यथोत्तरवला युद्धे ज्ञातव्याः स्वरपारगैः।” तथैव । एकमात्रिकद्विमात्रिकादिलक्षणम् । "एकमात्रकवर्णश्च किवर्णश्च दिमात्रिकाकुस्त्रिकस्तुर्यकः केस्तु कोवर्णः पंचमात्रिकः।" अन्यच्च । “स्वरव्यंजनयोः संख्या नानोः शर ५ हृताधिके । जयो हीने मृतिः साम्ये संधिर्वा समरागमः॥ १५॥ एकस्वरेति । एकस्वरे द्वयो लस्वरे सममेव न कस्यापि जयो न पराजयः। बालकुमारयोः संग्रामे फलं कुमारस्य किंचिजयः बालयूनोः फलं पूर्ण यूनः सर्वपदे जयः । बालवृद्धयो लस्य वधः । बालेतरयोर्भयमात्रम् ॥१६॥अथ जयाभिलाषी शत्रु यथा जयति तज्जयसमयमाह। शत्रोर्मृत्युस्वरेतायस्मिन् काले शत्रोसृत्युस्वरो भवति एवं शत्रोर्मृत्युस्वरे स्वस्य यूनि स्वरे प्राप्ते तत्काले युद्धं प्रारभेत विजयो भवति नान्यथा किंतु सत्यमेव । सर्वजयहेतौ मुख्यः पक्षोयम् ॥ १७ ॥
तत्काले मात्रिको ग्राह्यो दिने वर्णस्वरस्तथा।पक्षे ग्रहस्वरो ज्ञेयो मासे जीवस्वरोदयः॥ १८॥ ऋतौ राश्यंशको ग्राह्यः षण्मासे धिष्ण्यसंभवः॥ अब्दे पिंडस्वरो ज्ञेयो योगो द्वादशवार्षिके ॥ १९ ॥ सर्वकालं बली वर्णः सर्वव्यापी न संशयः ॥ तस्मा
सर्वप्रयत्नेन वर्णे वीक्ष्यं बलाबलम् ॥ २०॥ यथा पदा हस्तिपदे प्रविष्टा यथाहि नयः खलु सागरेषु ॥ यथा हरेर्देहगताश्च देवास्तथा स्वरा वर्णफलोदयस्थाः॥२१॥साधनं मंत्रयंत्रस्य तत्र योगं च सर्वदा॥अधोमुखानि कार्याणि मात्रास्वरबले कुरु॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com