________________
( २४ )
नरपतिजयचर्या
स एव द्वादशाब्दादिस्वरांतरोदयस्तदास बालसंज्ञः नामस्वराद्दितीयः स्वरः कालजस्तदा कुमारस्वरसंज्ञो भवति । नामजातृतीयो युवासंज्ञः । चतुर्थो वृद्धसंज्ञः । पंचमो मृतसंज्ञ इति । अनेन प्रकारेण नामस्वरवशेन संज्ञाः कल्प्यते । ताः संज्ञा निजावस्थास्वरूपेण फलदाः । यस्य यः संज्ञास्वरः स संज्ञास्वरूपफलदः ॥ ६ ॥ तासां संज्ञानां फलमाह । किंचिल्लाभकरेति ॥ ७ ॥ कुत्रेदं फलं परिणमति तस्याकांक्षामाह । यात्रायुद्धेति ॥ ८॥ सर्वेति ॥ ९ ॥ शुभाशुभेष्विति ॥ १० ॥
दाने देवार्चने दीक्षागूढमंत्रप्रकल्पने ॥ वृद्धस्वरो भवेद्भव्यो रणे भंगो भयंगमे॥११ ॥ विवाहादिशुभं सर्व संग्रामाद्यशुभं तथा ॥ न कर्तव्यं शुभं किंचिजाते मृत्युस्वरोदये ॥ १२ ॥ मृतो वृद्धस्तथा बालः कुमारस्तरुणः स्वराः ॥ यथोत्तरबलाः सर्वे ज्ञातव्याः स्वरवेदिभिः ॥ १३ ॥ यो यस्य पंचमे स्थाने स स्वरो मृत्युदायकः ॥ तृतीये तु भवेत् सिद्धिः शेषा मध्यफलप्रदाः ॥ १४ ॥ मृत्युहीन स्वरे नानि जयो नानि स्वराधिके ॥ समनानि भवेत्साम्यं संधिर्जयपराजयौ ॥ १२ ॥ एकस्वरे भवेत्साम्यं द्वितीयोऽर्धफलप्रदः ॥ तृतीये तु फलं पूर्ण तुर्ये बंधः पराद्भयम् ॥ १६॥ शत्रोर्मृत्युस्वरे प्राप्ते यूनि प्राप्ते स्वकी - यके ॥ तत्काले प्रारभेद्युद्धं विजयो भवति ध्रुवम् ॥ १७ ॥
दाने देवार्चन इति ॥ ११॥ विवाहादीति ॥ १२ ॥ अथ पंचबालादिकावस्थानां ययोत्तरं बलमाह । मृतो वृद्ध इति । सुगमम् ॥ १३ ॥ यस्माद्यस्य तृतीयो युवा स तस्मात् जयं लभते । यस्माद्यस्य चतुर्थः तस्माद्युद्धतो रणे भंगं प्राप्नोति यस्य यस्माद्वितीयः स द्वितीयात् सर्वतो जयं लभते । यो यस्येति । योधयोर्द्वयोर्यस्माद्वर्णस्वराद्यः पंचमः । स मृत्युदायकः यतः पंचमस्य मृत्युसंज्ञा कथिता अतस्तेन सह युद्धं न कुर्यात् । स्ववर्णस्वरात् वृद्धः मृत इति । मृतबलयोः स्वरयोर्बालस्वरो बली । बालवृद्धयोवृद्धः । वृद्धकुमारयोः कुमारो बली कुमार यूनोर्युवा बली अर्थान्मृतबाल योरधिको बालो वृद्धः। बालवृद्वयोवृद्धोतिबलः । एवमुत्तरोत्तराधिके तथाधिकबलकल्पना ॥ १३ ॥ १४ ॥ अथ विशेषात् द्वंद्वादिचातुरंगयुद्धसमबलफलमाह । मृत्युहींनेति ॥ उभयोर्भटयोर्युद्धे हीनस्वरे सति मृत्युः । यो हीनस्वरः सोधिकस्वरान्मृत्युमभ्येति । वृद्धस्वरात् मृतिं प्राप्नोति । वृद्धोः कुमारतः मृतस्वरो बालस्वरात् मृतिं प्राप्नोति । बालस्वरः । कुमारस्वरात् मृतिं पामोति कुमारो युवस्वरात्। यत उक्तं मृतो वृद्धस्तथा बाल इति। अथवा अकारादाकारोधिकमातृकः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com