SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (२३) पलानि भागहारः९८१८नागेंदुगजखेचराउदितस्वरस्योकारस्य भुक्तपलानि५७६००३ असौभाज्यराशिःभाज्यभक्तः पंचमांशोनद्वाविंशतिदंडाः तदुपरि एकारस्वरस्यांतरोदयः। चैत्रशुक्लचतुर्थी दंड५पर्यंतम् । अथ पक्षस्वरस्योदाहरणम् । अस्वरः कृष्णपक्षेशःशुक्लपक्षेश इस्वरः । चैत्रप्रतिपदारभ्य इस्वरस्य उदयो विद्यते । चैत्रशुक्लप्रतिपदि उदयोंतरो दयोपि इकारस्यैव । अथ दिनस्वरोदयोपि इकारस्यैव । अथ दिनस्वरोदाहरणम्। चैत्र शुक्लप्रतिपदि अकारस्य उदयः आदौ पंचदंडसप्तविंशतिपलानि पर्यंतमंतरोदयोपि अकारस्यैव ॥१॥२॥ इति स्वरचक्रम् ॥ इति घटीस्वरचक्रम् । द्वादशाब्दादि नाड्यंता इति ॥१॥ वर्षमासदिवानाडीपलानि च क्रमादिदम् ॥ कालमानं मया प्रोतं पंचधात्र स्वरोदये॥२॥ द्वादशाब्दस्वरादीनां भुक्तं पलमयं तु यत् ॥ तद्भक्तं स्वस्वमानेन लब्धं शेषं द्विकं भवेत्॥३॥ लब्धे भुक्तस्वरा ज्ञेयाः शेषे चैवोदिताः स्वराः॥ अस्मिन् षष्टयादिभके तु भुक्तः स्यादुदितस्वरः ॥४॥ उदितस्य स्वरस्य स्युर्नामस्वरवशेन ताः॥पंच बालादिकावस्थाः स्वस्वकालप्रमाणतः॥५॥ वर्षमासदिवेति ॥२॥ द्वादशाब्दस्वरा इति ॥३॥ लब्धेति ॥४॥ अथानंतरं दादशाब्दादीनाम् उदितांतरोदयस्वराणां पंच बालादिकावस्थेति । नामस्वर वशेन मात्रादिनामस्वरवशेन द्वादशाब्दस्वरादीनां पंचवालादिकावस्थाः भवंति । अवस्थाः कल्प्यते । तेषामवस्थाभेद एव नास्ति ते तु सर्वेषां साधारणाःअतः सर्वेषां स्वरवशेन तेषां पृथगवस्थाः परिकल्पनोदितस्य द्वादशब्दाादिस्वरस्य कस्यचिन्नामवशेन बालसंज्ञा भवति । कस्यचिन्नामस्वरवशेन कुमारसंज्ञा भवति कस्यचिद्यवेत्यादिसंज्ञाः परिकल्प्यते ॥ ५ ॥ आयो बालः कुमारश्च युवा वृद्धो मृतस्तथा ॥ निजावस्थास्वरूपेण फलदा नात्र संशयः॥ किंचिल्लाभकरो बालः कुमारस्त्वर्धलाभदः॥सर्वसिद्धो युवा प्रोक्तो वृद्ध हानिर्मूते क्षयः॥७॥यात्रा युद्धे विवादे च नष्टे दृष्टे रुजान्विताबालस्वरो भवेद्दुष्टो विवाहादिशुभेऽशुभः॥८॥सर्वेषु शुभकार्येषु यात्राकाले तथैव च ॥कुमारः कुरुते सिद्धिं संग्रामे सक्षतो जयः ॥९॥ शुभाशुभेषु सवर्षे मंत्रयंत्रादिसाधने । सर्वसिद्धिं युवा दत्ते यात्रायुद्धे विशेषतः ॥१०॥ ताः पंच संज्ञा आहुः । आयो बालः कुमार इति ॥ अत उक्तं नामस्वरवशेन संज्ञा भवति । तर्हि नामस्वरवशेनैव केन प्रकारेण । तया व्याख्यायते । य एव नाम स्वरः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy