________________
(२२)
नरपतिजयचर्याअन्येपि ऊहायष्यति । ननु तानि दिनानि प्राप्तवर्षस्य भुक्तानि । भुक्तवर्षेभ्यो भुक्तफलानि न प्राप्यते । यथा गुरोरेव भगणादयः । अथोदाहरणम् । शके १४३७ । गतशकाब्दात् प्राप्तवर्षभुक्तवर्षाणि षोडशसप्तदशस्य सुभानोः षट्पञ्चाशदिनानि ५६ भुक्तान्यागतानि । तेन चैत्रशुक्लपातिपत् यश्च शके १४३५ समये माघशुक्लचतुर्थी सप्तदशमः मुभानुः प्रवृत्तः । तस्माद्भुक्तादनानि पञ्चपञ्चाशत् ५५ । ४५ पंचचत्वारिंशद्दण्डाः । मुभानोरधिपतिरिकारस्वरः तस्य भुक्तपलानि सप्तशताधिकं लक्षद्वयम् २००७०० अथ वार्षिकस्वरांतर्दशाभोगपलानि सुधांशुधरणानीगपवर्तसुधांशवः ११७८११ ॥ अयं हारराशिरन्तरोदयस्वरभुक्तपलेभ्यो हारप्राप्तः वार्षिकस्वरात् अंतईशास्वराः। इकारस्वरात् द्वितीय उकारस्वरश्चैव्यां प्रवर्तते तस्य भोग्यदिनानि नव ९ द्विचत्वारिंशदंडाः ४२ तेन किं जातं चैत्रशुक्लदशम्यां द्विचत्वारिंशदंडोपरि एकारस्यांतरोदयस्य प्रवृत्तिभविष्यति । वैशाखशुक्लद्वादश्यां दंडाः पञ्चविंशतिः २५ चत्वारिंशत्पलपर्यंतम् ॥ ४० ॥ अधुना चैत्रशुक्ल प्रतिपदि कस्यायनस्वरस्य उदयोंतरोदयश्च विद्यते तदुदाहरणम् । अस्वरो दक्षिणे स्वामी इस्वरश्चोत्तरायण इति वचनात् चैत्रप्रतिपदि उत्तरायणे इकारोदयः प्रवर्तते । तथा चायननिर्णये वराहः । दक्षिणमयनं सवितुः कर्कटाये मृगादितश्चान्यत इति वचनात् । शके १४३६ समये पौषशुद्धद्वादश्यां १२ मकरेऽर्कत आरभ्य चैत्रशुक्लत्रयोदश्यां संमेषेऽर्कः । अर्द्धायनम् । तेन चैत्रशुक्लप्रतिपदि इकारस्वरस्यैव उदयो विद्यते । अथांतरोदयानामुदाहरणम् । मृगादिभुक्तांशाः ७८ एषां पलानि २८०८०० अष्टशताधिका अष्टाविंशतिरयुतानि । अयनस्वरांतरोदयपलानि ५८९०९ असावंकराशिरयनवस्वरांतरोदयभोगः । अयमेव हारः अनेनायनमुक्तपलेभ्यः प्राप्ता अंतरोदयस्वरास्त्रयः ३ । ४९ । ५ एकोनपञ्चाशदंडाः । चैत्रशुक्लप्रतिपदि एकोनपंचाशइंडोपरि उकारस्वरोदयः । वैशाखवद्यतृतीयायां दंड ३३ पर्यंतम् । अथ ऋतुस्वरोदयांतरोदयोदाहरणम् । अथ ऋतूनां प्रवृत्तिः सूर्यसंक्रमतः । तथा च संहिताकारः। “मृगादिराशिदयभानुभोगात् पडतव” इति वचनात् मकरसंक्रमणादारभ्य चैत्रशुक्ल प्रतिपदि अष्टादशदिनानि मीनसंक्रमणाजातानि । मीनादारभ्य वसंतऋतुः एतेन अकारः स्वरोदया विद्यते । अथांतरोदयः । अथांतर्दशाकालः । षड्दिनानि ६ । ३६ । ४३ ॥ एषां पलानि २३५६३ रामांगेषु गुणाश्विनः । असावन्तरोदयहारः । अथोदयस्वरः ॥ अथोदयस्वरस्य भुक्तपलानि ६४८०० खखनागाब्धिरसाः असौ भोज्यराशिः । एभ्यो हारप्राप्ता अंतरोदयस्वरोदयः दि० प १ दंड ३८ प० तेन वतंते अस्यांतरोदये अकारइकारों भुक्तस्वरौ उकारस्वरस्य अंतरोदयो वर्तते । तस्या भोग्यम् । चैत्रशुक्लपतिपदिनमेकम् अष्टात्रिंशद्दण्डाः नव पलानि चैत्रशुक्ल-. तृतीया अष्टात्रिंशद्दण्डपर्यंतम् ॥ अथ मासस्वरोदयांतरोदयोदाहरणम् ॥ चैत्रकृष्णप्रतिपदारभ्य चैत्रशुक्ल प्रतिपत्पर्यंतं षोडश दिनानि । तत्र मासांतरोदयस्वरस्य विभागः । द्वे दिने २ व्यब्धयो नाडयः ४३ अष्टाविंशत्पलानि च २८ एषां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com