________________
जयलक्ष्मीटीकासमेता।
(२१) कुत्रोक्तमाह । वर्षमेकं मासमेकमित्यादिकस्य फलस्य परिपाकवर्ष १ ।२।४३ । ३८ । कस्यापि मासादिभिः कस्यापि द्वे दिने त्रयो नाड्यादिभिः । ताववर्षादिरूपमानम् ॥ १॥ अथ भुक्तभोग्यांतरोदयस्वरात्कर्तुं गणितमाह । द्वादशाब्द इति । अथोदाहरणम् । अधुना प्रभवादिद्वादशसंवत्सरैरकारस्वरो भुक्तः। वर्तमानकाले प्रमाथिसंवत्सरादारभ्य द्वादशवर्षपर्यंतमिकारस्वरस्योदयो वर्तते । शके १४३७ समये चैत्रशुद्धप्रतिपदि तस्य भुक्तवर्षाणि चत्वारि ४ पञ्चपञ्चाशद्दिनानि वर्षाणि षष्ट्यधिकशतत्रय ३६० गुणितानि दिनसहितानि १४९५ ॥ शरगोब्धिसुधांशवः षष्टया गुणिते जातम् । ८९७०० एतानि भुक्तदण्डानि । षष्टया गुणिते पलानि ५३८२००० अथ द्वादशाब्दांतरोदयपलानि व्योमकुञ्जरशैलानिमुधाकरयुगेंदवः १४१३७८० ॥ द्वादशाब्दांतरोदये हारः । अनेन हारेण इकारस्वरभुक्ताब्दपलेभ्यो लब्धा भुक्तस्वरास्त्रयः। इकारादारभ्य इ उ एस्वरा भुक्ता ओकारोंतर्दशाधिपत्वेन वर्त्तते तस्यापि भुक्तभोग्यदिनानि ३१६ ॥५१॥ भोग्यदिनानि ७५ ॥ ५२ ॥ एतावता ओकारस्य उदयः चैत्रशुक्लप्रतिपदारभ्य आषाढकृष्णप्रतिपत्पर्यंत विद्यते । तदुपरि अकारस्यांतरोदयो भविष्यति। अथ वार्षिकस्वरोदयांतरोदाहरणम् ।। अधुना षोडशः संवत्सरश्चित्रभानुः शकान्दो गतः शकाब्दास्तु भुक्ताश्च भवति । भोग्यवर्षस्य परिचायकाः । यथा आदौ कल्पारंभे चैत्रप्रतिपदि भुक्ताब्द एव न ततो वर्षे प्रमाणदिनेषु व्यतीतेषु पुनश्चैत्र शुक्ल प्रातिपदि एक वर्षे गतं लिख्यते । तद्वर्षभोग्यस्य द्वितीयस्य परिचायकम् । तथा शकान्दा एकैकेषु व्यतीतेषु वर्षेषु शकाब्दसमूहाः जाताः । तत्र बार्हस्पत्यवर्षाः प्रभवति । तस्योपपत्तिः। सिद्धांतादिषु वराहसंहितासु रविभगणप्रमाणं रविवर्षाः। गुरुभगणा वराहमिहिरोक्ताः। जिनयमवेदभुज हव्यभुजः। एकैकस्मिन्वर्षे कियत्कालाधिकगुरोराशिभोगः। तत्प्रमाणेन वराहमिहिरेण जिनयम हव्यभुजोभगणाकल्पिताः । गुरुभगणा द्वादशघ्ना गुरुवर्षाः स्युः। ततो रविवर्षभगणेभ्यो गुरुवर्षाधिकाः। द्वयोरंतरे गुरुवर्षाधिकाः। ततो ३६४२२४ गुरुभगणाः। भगणाब्दाः ४३७०६८८ सौराब्दाः ४३२००० ॥ अंतरं ॥ ५०६८८ अपवताकः । २३०४ शकादौ गुरुः२। ८।३९ । २२ गुरुवर्षशेषं रविवर्षाणि च केनाप्यपवर्त्य गुरुभगणात् प्राग्गुणकाराः २२ द्वाविंशतिः हाराःप्राप्ताः शराद्रिवविदवः १८७५ गुणभागहाराभ्यामेकवर्षोंनगुरोर्मध्यमगत्या रविवर्षाभ्यंतरे भोगो लभ्यते राशिः१०।२१।७प्रभवादेभोंगो रूपराशिरेवातदुपरि अग्रिमवर्षस्य अन्तिमकला विकला भोगः । भुक्त एवागच्छति पञ्चकलाभोगः प्रत्यहं गुरोः अतस्तेन भोगेन कलाविकलाभ्यां प्राप्तदिनानि चत्वारि दण्डास्त्रयोदशाद्या अग्रिमवर्ष चैत्रशुक्लप्रतिपदः पश्चादेव त्रयोदशदंडसहितं चतुभिर्दिनः प्रवृत्ता एवं तदग्रिमवर्षस्य प्रवृत्तिरष्टभिर्दिनैः षड्विंशतिदंडैः पश्चादेव प्रवृत्तिर्भवति । एवं सर्वेषां प्रवृत्तिज्ञातव्या। अत एवास्माभिर्व्याख्यानं टीकायां कृतम् । शकान्दा भुक्तसंवत्सराः प्रदृश्यते । शेषदिनानि भोग्यस्य वर्षस्य गतान्येव तेनाग्रिमवर्षेण फलप्रवृत्तिर्वक्तव्या। अस्माकंमतमेतत् गणितद्वारेण दार्शतम् !
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com