________________
(२५८)
नरपतिजयचर्याणगा॥ चतुर्थी द्वादशी प्रोक्ता वैष्णवी नैर्ऋती तथा ॥२॥ वाराही दक्षिण भागे पंचमी च त्रयोदशी ॥ षष्ठी चतुर्दशी चैव इंद्राणी पश्चिमे स्थिता ॥३॥पूर्णिमायां च सप्तम्यां वायव्ये चंडिकोदयः ॥ नष्टचंद्रदिनाष्टम्यां महालक्ष्मीः शिवालये ॥ ४ ॥ इति तिथियोगिनी॥ यत्रोदयगता देवी ततो यामार्द्धभुक्तिदा ॥ भ्रमंती तेन मार्गेण भवेत्तत्कालयोगिनी ॥ ५॥ इति तत्कालयोगिनी ॥
वारयोगिनी ३
द्वितीयस्तिथिकालः २
hor
.
.
इंद्रचंद्राग्निनैर्ऋत्ये याम्ये तोयानिले हरे॥सूर्यादिषु च वारेषु वर्जयेद्वारयोगिनीम् ॥ ६॥ दिवस्थानां संमुखे दृष्टिविदिक्स्था वारुणे मता ॥ कोणस्थानां च कोणे च तिथिदिश्युदयः क्रमात् ॥७॥ जयदा पृष्ठदक्षस्था भंगदा वामसंमुखी ॥ त्रिविधं योगिनीचक्रमित्युक्तं ब्रह्मयामले ॥ ८॥ इति वारयोगिनीचक्रम् ॥ मध्यबाह्यक्रमेणैव वामं प्रतिपदादिषु ॥ वर्तमाने तिथौ कालं वर्जयेदाश्रयद्वये ॥१॥०॥ इति तिथिकालः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com