________________
जयलक्ष्मीटीकासमेता। (२३७) ईशाद्या वामतो यांति यामाध ककुबष्टके ॥ भंभुकाख्या भ्रमत्येवं जयदा वामसम्मुखी ॥ १॥ इति भुंभुका भूमिः ॥ २३ ॥ ईशाद्या इति ॥ १॥ इति भुंभुका भूमिः । त्रिरेखा ऊर्ध्वगाः कृत्वा तिर्यग्गास्तु तथा पुनः॥ पूर्वरेखादितो न्यस्य मेषाद्याः सव्यमार्गगाः ॥ १॥ यत्र राशौ स्थितश्चंद्रस्तइंडे क्रमतो रविः॥रविः पृष्ठेशशी चाग्रे जयदा कर्तरी स्मृता॥२॥ इति यामले कर्तरी भूमिः ॥ २४ ॥ त्रिरेखा इति ॥१॥२॥ इति कर्तरी भूमिः । शार्दूली भूमिः २९
सिंहली भूमिः२६
यामाद्ध
१५ आ. २०
7T
३०
आ.
उ १२
फा..
का.
पोष
मा
ET
वा
चैत्रायुत्तरतो मासा द्वादशारे च सृष्टिगाः ॥ यत्रस्थास्तत्रतो यांति पंचपंच घटीः क्रमात् ॥ १॥ भंगदा पृष्ठगा प्रोक्ता मृत्युदा वामतः स्थिता ॥ जयं ददाति दक्षाग्रे शार्दूली समरे स्थिता ॥ २॥ इति स्वरोदये शार्दूली भूमिः ॥ २५॥ चैत्रादीति ॥ १ ॥ २ ॥ इति शार्दूली भूमिः। वाममार्गेण पूर्वादियामार्ध च दिगष्टके ॥ वामाग्रे जयदा प्रोक्ता सिंहली समरे सदा॥१॥ इति यामले सिंहली भूमिः ॥ २६ ॥ वाममार्गेणेति ॥ १॥ इति सिंहली भूमिः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com