________________
(२३२)
नरपतिजयचर्यानक्षत्रात्पंचदशमं रेवती तत्र रविः । अनेन मासचन्द्रवी जातौ पूर्वपश्चिमे आवरेखायां प्राक् चंद्रः पश्चाद्रविः युद्धदिने कृत्तिका यदि सा कृत्तिका पश्चिमे चतुर्थनाड्यां स्थिता विघटेत । तत्र दिनचन्द्रः पश्चिमे कृत्तिकास्थानात्पंचदशनक्षत्रे अनुराधायां रविः दिनरविः प्राचि चतुर्थनाडयां कृत्तिकायां युद्धसमये गतघटिका दश तदा तदा सपादघटिका दश तदा सपादघटिकाद्वयविचारेण नवघटिकाभिः कृत्तिकातश्चत्वारि नक्षत्राणि भुक्तानि पंचमनक्षत्रे तत्कालचन्द्रः तत्कालचंद्राद्दक्षिण आद्यरेखायां रविः । अस्य व्याख्यानस्य चक्रमिदं सप्तमम् ॥ ४ ॥ अथ भूबलमाह । दक्षपृष्ठे रविं कुर्यादिति । श्लोकार्थेन चैत्रे मासि अस्मिन्सप्तशलाकाचके दिनचंद्रतत्कालचंद्राभ्यां दिनतत्कालरवी पूर्वदक्षिणे तेन किं आग्नेयदिशि पृष्ठस्थं रविं दक्षस्थं च प्राक रविवयं कृत्वा वामस्य चंद्रद्वयं भवति । अधिकबलं प्राप्य जयो भवति एकोपि शतमाहवइति वचनात् ॥ ५॥ रविचन्द्रयोलमाह । शक्तिरूप इति । अत्र चक्रे कालरेखापुष्ये अभिजिते च एवमिमां रेखां न लंघयेत् । कोर्थः एकसैन्यं दक्षिणपश्चिमे स्थितम् । अपरसैन्यं पूर्वोत्तरे अत्र युद्धे द्वयं याति.यमालयं न कस्यापि जयः॥ ६॥ कवौकोटति । कालरेखा अर्कसंमुखी यतः कालरूपी दिवाकरः ॥ एषा भूमिः पश्चादुक्तक्षेत्रपालीप्रभूतिषु मेलनीया यथा यस्याधिकफलं प्राप्यते ॥ ७ ॥ इति कालानलभूमिः। निरामयाभूमिः १३ पावकावादशारे च घटी पञ्चक्रमोदयः ॥
उदयाद्वाममार्गेण भ्रमो ज्ञेयो निरामये ॥१॥ पावकाद्वादशानां तु चैत्रादीनां क्रमोदयः॥ अग्निप्रायद्रचंद्रेषु वायुवारुणनैर्ऋते ॥२॥
यमेग्निपूर्वगादिक्षु मासे वामभ्रमोदयः॥पंच % ३५/ ४५ नै ।
पंच घटीमानमासस्थानक्रमोदयः ॥ ३॥ यत्रोदयगता भूमिः सा कार्या पृष्ठदक्षिणे ॥ ततो जयमवाप्नोति संग्रामेपि चतुर्विधे ॥४॥॥ इति निरामया भूमिः॥१३॥
पावकादिति । पावकादग्निकोणतो मासाश्चैत्राया मासाः पंचघटीप्रमाणेनोदयेन अष्टदिक्षु क्रमेण परिभ्रमंति । केन क्रमण वाममार्गेण यथा चैत्रमासस्य आग्नेयकोणे उदयः तत्र उदयाच्चैत्रमासः पंचघटीप्रमाणकालपर्यंतमानेये एव तिष्ठति तदुपरि वामं पञ्चवटीयावत्तावत्पूर्वस्यां तिष्ठति तत ऐशान्यां तत उत्तरे एवं वामक्रमेण परिभ्रमः । चैत्रे व्यतीते वैशाखस्योदयः प्राचि ज्येष्ठस्येशानकोणे आषाढस्योत्तरस्यां श्रावणस्य वायौ भाद्रस्य पश्चिमे इत्यादि मासस्योदयः पंचघटीभिरपि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com