________________
(२२२)
नरपतिजयचर्यापयोः शरसंनिभः ॥ चापवत् कीटहर्योस्तु शुलवत् तौलिकन्ययोः ॥ ४॥ विपरीतोदितश्चेदुर्दुर्भिक्षकलहप्रदः ॥ यथोक्तोभ्युदितश्चंद्रः प्रतिमासं सुभिक्षकृत् ॥ ५ ॥ आषाढद्वयमूलेंद्रधिष्ण्यानां याम्यगः शशी ॥ अग्निप्रदग्धोपचरवनसर्पविनाशकृत् ॥ ६ ॥ विशाखामैत्रयोर्याम्यपार्श्वगः पापकृच्छशी ॥ मध्यमः पितृदेवत्यो द्विदैवतं शुभोत्तरे ॥ ७॥ अप्राप्य पौष्णभान्भुक्तषडक्षाणि शशी शुभः ॥ मध्यगो द्वादशाायामतीत्य नववासरान् ॥ ८ ॥ यमेंद्रोहीशतोयेशमरुतश्चार्यतारकाः ॥ ध्रुवादितिद्विदैवत्यमध्यमाश्च पराः समाः ॥ ९ ॥ याम्यश्रृंगोन्नतः श्रेष्ठः सौम्य,गोन्नतः शुभः ॥ शुक्ले पिपीलिकाकारे हानिर्वृद्धिर्यथार्थकृत् ॥ १० ॥ सुभिक्षकृतिशालेंदुरविशालार्थनाशनः ॥ अधोमुखः शस्त्रभयं कलहो दंडसन्निभे॥११॥ कुजायैनिहते शृंगे मंडले वा यथाक्रमात् ॥ आयार्घवृष्टिनृपतिजनानां नाशकृच्छशी ॥ १२ ॥ इति शृंगोन्नतिचक्रम् ॥
अथ चंद्र,गोन्नतिः । मीनेति ॥ १ ॥२॥ ३ ॥ ४ ॥५॥६॥ ७॥ ८ ॥ ॥९॥ १०॥ ११ ॥ १२॥ एतानि सर्वचक्राणि ज्ञात्वा युद्धं समाचरेत्।।जयेदिह न संदेहः शकतुल्यपि वैरिणि ॥ १॥ इति चक्राध्याये चतुरशीतिचक्राणि समाप्तानि ॥ पंचावस्थास्वरूपं स्वरबलविमलं देहतत्त्वं प्रधानं राशी भे वेधहृद्यं ग्रहवशफलदं स्थायियायिप्रधानम् ॥ वर्गाद्यायैश्च वर्णैबलविधिसहितं मातृकाभेदरम्यं भुपादीनां जयार्थे नरपतिरकरोच्चक्रबंधप्रबंधम् ॥ २॥ इति श्रीनरपतिजयचर्यायां यामलीयस्वरोदये चक्र
वंधाख्यस्तृतीयोऽध्यायः ॥३॥ एतांनीति ॥ १॥ पंचावस्थास्वरूपमिति ॥२॥
इति नरपतिजयचर्यास्वरोदयटीकायां तृतीयोऽध्यायः ।। ३ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com