________________
जयलक्ष्मीटीकासमेता। (२२१) तथा ॥ ४ ॥ तृतीयैकादशे पादं द्विपादे व्योमबंधुगे ॥ त्रिकोणे व्यघि मूर्त्यस्ते पूर्ण पश्यंति खेचराः ॥५॥ शन्यर्कराहुकेत्वाराः पंच करग्रहा मताः॥शेष चतुष्टयं सौम्यं मासेंदुश्चापि पंचमः॥ एवं पंच ग्रहाः क्रूराः पंच सौम्यास्तथैव चातेषां शुभाशुभां दृष्टिं कृत्वा स्थानबलं वदेत् ॥ ७॥ एकैकग्रहजा दृष्टिः पूर्णपादचतुष्टयम् ॥ पंचमे नवमे तेषां पादोना विंशतिर्भवेत् ॥ ८॥ तत्र विंशोपका ज्ञेयाः सौम्यक्रूरग्रहोद्भवाः ॥ एवं प्रसाधयेदृष्टिं युग्मखेटः शुभाशुभम् ॥ ९॥ बह्वी स्तोकोनिता शेषा जायंते दृक्शुभाशुभाः ॥ ते च विंशोपकास्तस्य स्थानस्य बलनिर्णये॥१०॥ एवं देशे पुरे ग्रामे बलं यत्र शुभाधिकम् ॥ तत्र स्थाने स्थितो राजा दुष्टारिष्टैन पीडयते ॥ ११॥ स्थानबलप्रभावेण स्वबलस्य बलोदयः॥शत्रुसैन्यं क्षयं याति यावत्स्थाने शुभे स्थितेः ॥१२॥ इति स्थानबलचक्रम् ॥
अथ स्थानबलचक्रम् । स्थानचक्रमिति ॥ १॥२॥३॥४॥५॥६॥७॥ ॥८॥९॥१०॥ ११ ॥ १२॥ इति स्थानबलचक्रम् । ॥चंद्रशृंगोन्नतिचक्रम् ॥ अथ चंद्रशृंगोन्नति
चक्रम् ॥ मीनमेषोदये चंद्रः सततं दक्षिणोन्नतः ॥ उदगुनतशेषे स्यात् समस्तु वृषकुंभयोः॥१॥ विड्वरं स्यात्समे चंद्रे
दर्भिक्षं दक्षिणोन्नते॥ ईतिरोगभयं शूले सुभिक्षं चोत्तरोन्नते ॥ २॥ नारदीयसंहितायाम् ॥ याम्य,गोन्नतश्चंद्रः शुभदो मीनमेषयोः॥ सौम्यश्रृंगोन्नतः श्रेष्ठो नृयुग्मकरयोस्सदा ॥३॥ समोक्षघटयोः कर्किचा१विग्रहः स्यात इति पाठः ।
44
-
vam
-
-
-
-
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com