SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ (२२०) नरपतिजयचर्याग्रहान्न्यस्य राशौ ये यत्र संस्थिताः ॥ वर्षराशेविचिंत्यास्ते रेखास्थानगता ग्रहाः ॥ ६ ॥ वर्षोपचयगाः क्रूराः सौम्याश्छिद्रांत्यवर्जिताः ॥ ग्रहा रेखाप्रदा ज्ञेया मितमध्यग्रहे स्थिताः ॥ ७ ॥ स्वः द्विघ्नं फलं दत्ते स्वोच्चे त्रिनं तथैव च ॥फलार्धं शत्रगेहस्थो नीचस्थो निष्फलो ग्रहः ॥ ८॥ एवं रेखाप्रमाणेन वर्षविंशोपका मताः ॥ज्ञातव्या दैशिकेंद्रेण वर्षमध्ये प्रयत्नतः ॥९॥ एवं वर्ष. फलं प्रोक्तं चैत्रमासाद्यवासरात् ॥ आषाढे कार्तिकेप्येवं जलं धान्यं विचिंतयेत् ॥ १० ॥ तत्र देशे पुरे ग्रामे फलं भिन्नं प्रहश्यते ॥ तस्मात्तत्कारणं वच्मि येन जानाति साधकः ॥ ११ ॥ देशादिराशिनाथस्य यो रेखादायको ग्रहः ॥ मित्रोदासीनशत्रत्वे फलं भिन्नं करोति सः॥ १२ ॥ मित्रं द्विघ्नं फलं दत्ते समः सौम्यं करोति सः॥ शत्रुः सर्वहरो ज्ञेयः सर्वदा कालचिंतकैः ॥ १३ ॥ एवं विचार्य कर्तव्या कालविंशोपका बुधैः॥ यथा जलं यथा । धान्यं स्वस्वकाले विचिंतयेत् ॥ १४ ॥ इति संवत्सरचक्रम् ॥ अथ संवत्सरचक्रम् । चक्रमिति ॥ १ ॥२॥ ३ ॥ ४ ॥५॥६॥ ७ ॥ ८॥ ॥९॥१०॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ इति संवत्सरचक्रम् । ॥ स्थानबलचक्रम् ॥ अथ स्थानबलचक्रम् ॥ स्थानचक्र प्रवक्ष्यामि यदुक्तं लंपटागमे ॥ येन विज्ञायते सम्यक् स्थानस्थाने शुभाशुभम् ॥ १ ॥ स्थानपीडाप्रभावण राज्ञः पीडा प्रजायते ॥ तस्मादपी. डिते स्थाने स्थातव्यं सर्वदा नृपैः ॥२॥स्थाननामोद्भवं राशिं कृत्वा दौ द्वादशारके ॥ राशिमंडलकं न्यस्य वाममार्गेण संस्थितम् ॥ ३॥ नव तत्र ग्रहाः स्थाप्या मासचंद्रश्च राशिगः ॥ तेषां विलोकनं वीक्ष्य स्थानराशिगतं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy