________________
जयलक्ष्मीटीकासमेता।
(२१७) दानि क्रमेण नवकत्रये ॥२॥ वेधोपि कर्णगस्तत्र कर्तव्यो नवकत्रये ॥ क्रूरसौम्यग्रहैर्विद्धं ज्ञेयं तस्य शुभाशुभम् ॥३॥ जन्म संपद्विपत्क्षेमप्रत्यरिः साधको वधः॥ मैत्रातिमैत्रगास्तारा नवभेदा भवन्ति च ॥ ४ ॥
अथ विरंचिचक्रम् । अथात इति । कृत्तिकादिन्यासे चक्रलिखनक्रमो दर्शितः । क्रमोत्क्रमलिखनं चापि निरस्तम् । तत्र जन्मनक्षत्रात् नवकत्रयं लिखित्वा ग्रह दत्त्वा विलोकयेत् । निर्वेधफलं वेधफलम् ॥ १॥२॥ ३॥ ४॥
जन्मत्रयस्य वेधेन मृत्युः क्रूरग्रहेण च ॥ जयं लाभं शुभैस्तत्र मिर्मिश्रफलं विदुः॥५॥ जन्मत्रये स्थितः सौरिः क्षेमभे राहुभूमिजौ ॥ मित्रातिमित्रगे सूर्ये जायते वधबन्धनम् ॥ ६ ॥ जन्मत्रये यदा जीवः क्षेमभे बुधभार्गवौ ॥ मित्रातिमित्रगे चंद्रे जयं लाभं सुखानि च ॥७॥ त्रिपञ्चसप्ततारासु रोगोत्पत्तिर्यदा तदा ॥ चिररोगो मृतिस्तासु क्रूरविद्धासु जायते ॥ ८ ॥ इति विरञ्चिचक्रम् ॥
जन्मत्रयस्यति । जन्मत्रयबै जन्मभं दशमभमेकोनविंशभम् एतजन्मत्रयं पापेन यदि विद्धं भवति तदा मृत्युवत्कष्टम् । सौम्यवेधेन शुभम् । पापशुभैविद्धं मिश्रं फलम् । क्रमोत्क्रमलिखनेन जन्मत्रयं पृथक् पंक्तिवेधमपि पृथग्भवति तेन हेतुना कृत्तिकादि. लिखनक्रमेण जन्मनक्षत्रक्रमणैतच्चकं यदि लिख्यते तदा जन्मसंपद्विपत्क्षेमादि त्रित्रितारकं पापशुभाभ्यां जन्मादित्रयं त्रयं विद्धं भवति तत्फलं भवति ॥ ५ ॥ अमुमर्थ कविरेव फलयति ।जन्मत्रये स्थितः सौरिरिति । यस्य कृत्तिकानक्षत्रं जन्मभं तत्र कृत्तिकास्थशनौ जन्मत्रये वेधः । उत्तराफाल्गुन्यां स्थिते जन्मद्वये वेधः । उत्तराषाढास्थितेन किमुपरिस्थितेन शनौ उत्तराषाढायामेव वेधः । विरिचिचक्रे सम्मुखः एव वेधः । अत्र यदि संमुखवेधो न स्यात् तदा सर्वतोभद्रचक्रवेधमेव दर्शयेत्कविः । तेन किम् । उपरिस्थितेन अधोद्वयं विद्धं भवति ॥ ६॥ तथा च पुनः फलयति । जन्मत्रये यदा जीव इति । सुगमम् ॥७॥ यस्य पुनरुत्तराषाढानक्षत्रं जन्मनक्षत्रं तस्मान्मासे चक्रे. ऽस्मिन् जन्मत्रयं विद्धं विद्यते । यस्य चित्रानक्षत्रं जन्मभं तस्य जन्मभत्रये गुरुः स्थित एव विद्यते वेधेन सर्वत्रोहयेत् ॥ ८॥ इति जयलक्ष्म्यां विरंचिचक्रम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com