________________
स
जयलक्ष्मीटीकासमेता। (२१३) चत्संमुखो वामगो वा भवति तदा एकोपि अनेकघातं करोति । मुद्गरैः कुतैः पाशैः खङ्गैरेतैः घातं करोति । अथवा अनकैर्भमिलितैर्हन्यते । तदा कृत्तिकादिसप्तस्थे पापे पश्चिमोत्तरमुखस्थितस्य योधस्य पृष्ठदक्षिणस्थो भवति । दक्षिणपूर्वमुखस्थो वा संमुखः अतो वामसंमुख एकोपि अनेकघातं करोति । एवमन्यासु दिक्षु योधस्य संमुखपृष्ठदक्षिणगा ग्राह्याः ॥ १५ ॥ अथान्यभूवलमाह । दक्षिणांगगता इति। अस्मिन्भूबलाश्रिते योधशिरश्छेदेपि सति संमुख एवहंतुं धावति किं पुनः शस्त्रधारी, जीवति । ग्रहबलं प्राप्य न धावति संमुखे हेतुमिति ॥ १६ ॥ अथान्यत् । यस्यति । सुगमम् ॥ ॥ १७॥ इति नरपतिजयचर्यास्वरोदयटीकायां जयलक्ष्म्यां नरघातचक्रम् ॥ अथ डिभचक्रम् ॥
अथ डिंभचक्रम् ॥ डिंभचक्रे न्यसेद्भानि भानुभावित्रि मस्तके ॥ मुखे त्रीणि द्वयं स्कंधे एकैकं बाहुहस्तयोः ॥१॥ पंच हृन्नाभिगुह्येषु एकैकं षट् च जानुनि ॥ चरणाभ्यां तथैकैकं जन्मभं यत्र तत्फलम् ॥ २॥ शीर्षस्थ छत्र
लाभश्च वक्रे मिष्टान्नभोजनम् ॥ स्कंधे धनी bp च बाहुभ्यां स्थानभ्रष्टो भवेन्नरः ॥ ३ ॥ पाणिभ्यां तस्करो लक्ष्मीहृद्यल्पायुश्च नाभिभे ॥ गुह्ये कामी भ्रमो जानौ स्तोकजीवी च पादयोः॥४॥इति डिंभचक्रम् ॥
अथ डिंभचक्रम् । डिभचके न्यसेदिति ॥ १॥२॥३॥ ४ ॥ सुगमम् । इति डिंभचक्रम् । अथ पक्षिचक्रम् ॥
अथ पक्षिचक्रम् ॥ चंचुमस्तककंठेषु हृदयोदरपत्सु च ॥ पक्षयोश्च त्रिकं चैव
शशिभादि न्यसेबुधः ॥१ ॥ चंचुस्थे नामभे मृत्युःशीर्षे कंठोदरे हृदि॥विजयःक्षेमलाभश्च भंगदं पादपक्षयोः ॥ २॥ इति पक्षिचक्रम् ॥ अथ पक्षिचक्रम् । चंचुमस्तककंठेष्विति ॥१॥२॥ इति पक्षिचक्रम् ।
% 3D
o
nlin
ww
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com