SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ (२१२) नरपतिजयचर्यानिजभे त्वद्धघातं च पादोनं मित्रभे ग्रहे ॥ उदासीने भवेत्सर्व द्विगुणं शत्रुगे ग्रहे॥६॥द्विादशे भानुचन्द्रौ त्रिरुद्रे शनिमंगलौ॥ शुक्रंदुजे वेददृशौ पञ्चांके राहुवाक्पती ॥७॥ षष्ठाष्टके केतुशुक्रौ सप्ताधे कंटतीक्ष्णगू॥ नृराशेर्लग्नतश्चैते ग्रहा नंति रिपुं महत् ॥८॥ नाभिश्रोत्रमुखे चंद्रः पृष्ठकोष्ठे बुधस्तनौ ॥ भौमाकों दंडहृद्धे गुरूदरे गुदे भृगुः ॥९॥ बाहुकणे तथास्ये च स्वर्भानुः स्कन्धकर्णयोः ॥ कालः करतले यस्य बाहुकक्षांधराभवः ॥ १० ॥ केतुर्दडे त्रिधा हंति मुखे शीर्षोंदरे रविः ॥ क्षितिवर्णैर्युता वेधा ग्रहा घातस्य लक्षणम् ॥११॥ शत्रुभे मित्रघातेपि रिपुणा तस्य होरया । म्रियतेऽरिः स्वके लग्ने शत्रुघातेपि हन्यते ॥१२॥ पुनर्घात निर्णयति । निजभे त्वयातं चेति॥६॥७॥८॥९॥१०॥११॥१२॥ एकोऽप्यनेकघातांश्च करोति भूबलोज्झितः ॥ भूबलस्थे भटे खेटाः स्थिता घातं न कुर्वते ॥१३॥ यत्रयत्र स्थितो घातो यत्रयत्र स्थितो न हि ॥ तत्फलं कथयिष्यामि ग्रहभूमिबलात्पुनः ॥१४॥ करा घातं न कुर्वति दक्षपृष्ठगता रणे ॥ संमुखा वामगा एते योधांगे क्षतकारकाः ॥१५॥ दक्षिणांगगताः क्रूराः सौम्या वामांगसंस्थिताः ॥ शिरश्छेदे समुत्पन्ने भटो धावति सम्मुखम् ॥ १६ ॥ यस्य वामांगगाः ऋराः सौम्या यस्य च दक्षिणे ॥ तस्य भंगो रणे नूनं यदि शरो महाभटः ॥१७॥ इति घातनरचक्रम् ॥ एकोपीति । यः पापो घातकारी स खेटो योधस्य भूवलस्थो भवति तदा घातं न करोति । भूबलोज्झितखेटः एकोपि अनेकघातं करोति ॥ १३ ॥ तेन यत्रयत्र भूबलं तंतं कथयति । यत्र यत्रेति । सुगमम् ॥ १४ ॥ क्रूराघातमिति । ग्रहो यदि कृत्तिकादिसप्तनक्षत्रव्यवस्थया यन्नक्षत्रे पापः शुभा वा तत्र तत्र ग्रहभूमिः । तत्रतत्र ग्रहबलं किं तदाह यः पापो घाताय व्यवस्थितः स चेद्योधस्य दक्षिणस्थः पृष्ठस्थितो वा भवति संग्रामकाले तदा स घात न करोति स एव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy