SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (२११) अथ सेवाचक्रम् । सेवाचक्रे इति । सेव्यसेवकयोर्लाभार्थं सेवाचक्रम् ॥ १ ॥ सेवकस्य सेव्यालाभो भविष्यति निष्फलं वा सेव्यस्य सेवकात्सेवालाभोऽलाभो वा फलाफलं विचार्यते । स्वामिभादिति । सेव्यसेवकयोनक्षत्रमन्योन्यं शिरसि दत्त्वा गणयेत् । स्वामिभाद्गणनया सेवकस्य नक्षत्रं सेव्यस्य शिरसि पतति तदा सेवकस्य स्वामिनो लाभः । तेन किम् । प्रथमतः शिरसि सप्त तदनन्तरं सप्त पृष्ठे तत उदरे सप्त ततः पादयोः सप्त दद्यात् गणनापि तथैव ॥ २॥ इति सेवाचक्रम् । अथ घातनरचक्रम् ॥ अथ घातनरचक्रम् ॥ नरचक्रं नराकारमष्टावयवसंयुतम् ॥ येन विज्ञानमात्रेण क्रियते घातनिर्णयः॥१॥ मुखैकं मस्तके त्रीणि हस्ते पादे चतुश्चतुः॥ हृदि पञ्च त्रिकं कण्ठे साभिजिद्भानि विन्यसेत् ॥ २॥ कृत्वा योधभमा दौ तु मुखे मस्तकवामके ॥ हस्तपादोदरग्री४ ४ वादक्षहस्तांनि गण्यते ॥ ३॥ यत्रांगे भानुभौमार्किराहवो धिष्ण्यसंस्थिताः॥ तत्र घातं विजानीयाञ्चन्द्रयोगे विशेषतः॥४॥ अथ घातनरचक्रम् । नरचक्रमिति ॥ १॥२॥ न्यासनक्षत्रे नरावयवक्रमेण फलयति । कृत्वा योधमेति । योधनामनक्षत्रं मुखे दत्त्वा गण्यते । कोर्थः एक मुखे त्रीणि शीर्षमित्यादिनक्षत्रं दत्त्वा यत्र क्रूरास्तत्र घातफलं वदेत् ॥ ३ ॥ यत्रांगे इति । चंद्रपापयोगे अवश्यमेव धातं वदेत् । इदं तु सामान्यं द्वंद्वयुद्धे देववित् स्वयोद्धाऽवयवं प्रति भटांगेषु यत्र यत्र पापा भवन्ति तदंगं तस्य वदेत् । अमुकांगे पापो विद्यते तत्र घातं कारयेत् । अथोपदेशगणनायां दक्षहस्तांघ्रिषु गण्यत इति । अत्र उपदेशः। योधनक्षत्रं दक्षिणकरे दत्त्वा गणयेत् यत्र पापस्तत्र घातं वदेत् । कृत्वा योधभमादौ तु मुखाद्गण्यते उपदेशेन दक्षिणहस्तन्यस्तचतुनक्षत्राद्गण्यते। ततो मुखे शिरसि त्यादिगणनाक्रमः॥४॥ ग्रहभुक्तिप्रमाणेन नवांशकक्रमेण च ॥ प्रहारो जायते तत्र वक्र द्विगुणसंख्यया ॥ ५॥ ग्रहमुक्तिप्रमाणेनेति । यन्नक्षत्रे पापः तेन पापन नक्षत्रोद्दिष्टराशौ यावंतो नवांशा मुक्तास्तन्नवांशप्रमाणं घातं च दिशेत् । ग्रहदृष्टया च ऊर्ध्वदृष्टिग्रहे ऊर्ध्वघातं अधो. दृष्टिग्रहे अधोघातम् ॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy