SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (२०७) अथ चापचक्रम् । चापचक्रमिति ॥ १ ॥२॥ गुणेत्विति । बाणस्य मूले धनुर्गुणयोगो यत्र कोटक इति प्रसिद्धः पक्षः पत्रं पक्षिपक्षः तत्रादौत्रीणि ततः शरमध्ये त्रीणि ततः फले त्रीणि च क्रमात् । धनुर्मूले त्रीणि मध्ये त्रीणि धनु:कोटौत्रीणि लिखेद्बुधः बाणकोदंडमौर्वीषु तत्रैव गुणे त्रीणि गुणमध्ये त्रीणि गुणमूले त्रीणि एवं सप्तविंशतिनक्षत्रन्यासः ॥ ३ ॥ तत्र पृथक्फलमाह । दिनःमिति ।बाणकोदंडमौर्वीणां त्रयाणां मूलाल्लिखनम् । तत्र प्रथमतो बाणमूलाद्गणना बाणस्य मूले त्रीणि नक्षत्राणि मध्ये त्रीणि उपरि इति नव बाणे नक्षत्राणि । दिनक्षतो योधभं गणयेत् बाणस्यादौ दिनभात्रीणि तत्र योधनक्षत्रमवलोकयेदस्ति न वा। ततस्तदने त्रीणि मध्ये तत्र योधनक्षत्रं विद्यते न वा । ततोऽवसाने त्रीणि एवं नवभानि दिनक्षतः । ततो दशमनक्षत्रात्रीणि त्रीणि कृत्वा धनुर्मूले मध्ये कोटौ च तत्र योधनक्षत्रं विचारयेत्। तदुपरि एकोनविंशति १९ नक्षत्रान्मौवींमूले त्रीणि मध्ये च त्रीणि धनुःकोटिलग्नमौर्वीषु त्रीणि त्रीणि तत्र विचारयेत् । ततः फलम् । दिनक्षतस्त्रिषु नक्षत्रेषु जन्मभं यदि तदा धनुष्मतो युद्धतः मृत्युभूयात् । मध्ये त्रिनक्षत्रादुपरि षण्नक्षत्रमध्ये यदि च जन्मभं तदा धनुष्मान्व्याधिपीडितो भवति । संग्रामदिने व्याधिरुत्पद्यते धनुर्गुणमध्ये च जन्मभे पतिते यथाक्रमं संग्रामेभंगः चापमध्ये धनक्षयः॥ ४ ॥ तथा च । शरमध्ये इति व्याख्यातम् ॥५ ॥ चापगुणमूलयोर्जन्मभे मृत्युः गुणचापयोरुपरि जन्मभे क्रमेण तदिने लाभः विजयश्च । चापगुणमूलयोर्जन्मभे पापयुते विशेषात्तदवश्यं फलं नियतम् । शरमूलेऽपि ॥ ६॥ ७ ॥ इति चापचक्रम् । अग्निचक्रम् . अथाग्निचक्रम् ॥ अ|लू ! | शु | श | चं | मंगु |रा के थातः संप्रवक्ष्यामि अग्निचक्रं वरानने ॥ होमे च शांतिके चैव चिंतनीयं प्रयत्नतः ॥ १ ॥ सैका तिथिरियुता कृताप्ता शेषे गणेभ्रे भुवि वहिवासः ॥ सौख्याय होमे शशियुग्मशेष प्राणार्थनाशौ दिवि भूतले च ॥ २ ॥ त्रीणित्रीणि भवेदृक्षे सूर्यऋक्षेष्वनुक्रमात् ॥ आदित्ये च भवेच्छोकं बुधे चैव श्रिया सुखम् ॥३॥ शुक्रे चैवा-. शोक. सुख. अर्थलाभ. पीडा. लाभ. निर्धन. अर्थलाभ. हानि. मृत्यु. 1. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy