________________
(२०२)
नरपतिजयचर्यायस्य हयस्य च ॥ विभ्रमं भंगहानी च करोत्यश्वो महाहवे ॥४॥ एतत्स्थानगतः सौरियंदा काले हयस्य च ॥ पट्टबन्धे गमे युद्धे वर्जयेत्तं हयं नृपः ॥५॥ देशांतरस्थितास्तस्य रिपवः संति शंकिताः ॥ तुरगा यस्य भूपस्य विचरंति महीतले ॥ ६ ॥ मेदिनी तस्य यस्याश्वा इति वाक्यं विपश्चिताम् ॥ सर्वाःश्रियो न राजन्ते विनाश्वेन महीभुजाम् ॥ ७॥ इति अश्वचक्रम् ॥ .. अथाश्वचक्रम् । अश्वाकारमिति ॥ १ ॥ मुखाक्षीति । अश्वाकारं लिखित्वा नक्षवन्यासो मुखादितः । तत्राश्वस्य यन्नामनक्षत्रं मुखाद्गणनया यत्र शनिः पतति ततः फलम् । तत्र च क्रमः । मुखे द्वयं २ अक्ष्णोईयं २ कर्णयोदयं २ शीर्षे द्वयं २ पुच्छे द्वयं २ अग्रिमदक्षिणांघ्रौ द्वयम् २ पश्चाद्दक्षिणांघ्रौ द्वयं २ पश्चाद्वामांघो द्वयं २ ततोग्रिमवामचरणे द्वयं २ पंचोदरे ५ पंच पृष्ठे ५ एवमष्टाविंशतिनक्षत्राणां न्यासः । उदाहरणम् । राजवाहन इति नाम तस्य चित्रानक्षत्रं तदारभ्य चित्रानक्षत्रादारभ्य द्वयं द्वयं कृत्वा उत्तराषाढास्थःशनिः राजवाहननानोश्वस्य शिरसि शनिः॥२॥तत्र पृथगंगानां शनिफलमाह । मुखाक्ष्युदरेति । मुखद्वयनक्षत्रे अक्षिद्वयनक्षत्र उदर्खे च मस्तकः च यदि तुरगनामनक्षत्रादेतेष्वंगेषु सौरिः स्थितो भवति । तदा तमारुह्य राजा जयं लभते परान् जयति ॥ ३ ॥ कर्ण २ पुच्छ २ चतुश्चरणेषु ८ पृष्ठे च ५ एषु नक्षत्रेषु सप्तदशसु यदि शनिश्चरति तदा संग्रामे विभ्रमः विशेषेण भ्रमः भयमुद्देगश्च भंगश्च पलायनं तुरगः करोति तमश्वं नारोहेत् ॥ ४॥ ५ ॥ अथाश्वप्रशंसामाह । देशांतरस्थिता इति ॥ ६॥ ७॥ इति अश्वचक्रम् । अथ शुद्धमुहूर्तविषये अश्वचक्रम् ॥ अश्वानां कर्म कर्तव्यं स्वाती तिष्ये पुनर्वसौ ॥ धनिष्ठाद्वितये हस्ते रेवतीरोहिणीद्वये ॥१॥ सूर्यभात्स्थिरऋक्षेषु मुखे रामा यशस्तथा ॥ हृदये पञ्च लाभोयं पादे षष्ठश्च भंगदः ॥२॥ पुच्छे वेदा महाहानिः पृष्ठेब्धिर्मृत्युरादिशेत् ॥ अश्वाकारं लिखेच्चक्रं पूर्वग्रंथानुसारतः ॥ स्कंधारभ्य मुखस्यांतं सूर्यभात्साभिजिन्न्यसेत् ॥३॥ पञ्चदश्ययमैवैदबाणादभ्रकमेण च ॥ जन्मनक्षत्रमारभ्य गण्यते चन्द्रभे विधिः॥ नवभिस्तु हरेद्भागं शेषं वाहनमुच्यते ॥ ४॥ ग्रंथांतरे ॥ अश्वाकारं लिखेचक्र साभिजिद्भानि विन्यसेत् ॥ स्कन्धे च सूर्यभात् पञ्च पृष्ठे च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com