________________
जयलक्ष्मीटीकासमेता ।
( २०१ ) मस्तकोदरे || युद्धकाले गजे यस्य जयस्तस्य न संशयः ॥ ४ ॥ पादे पृष्ठे च पुच्छे च कर्णस्थे च शनैश्वरे ॥ मृत्युभंगो रणे तस्य ऐरावतसमो यदि ॥ ५ ॥ एतेषु दुष्टगात्रेषु यत्काले संस्थितः शनिः ॥ तत्काले पट्टबन्धश्च वर्जनीयः प्रयत्नतः ॥ ६ ॥ पृथिव्या भूषणं मेरुः शर्वर्या भूषणं शशी ॥ नराणां भूषणं विद्या सैन्यानां भूषणं गजः ॥ ७ ॥ शरतोमरचक्राद्यैर्गजस्कन्धे हता नराः ॥ तत्क्षणात्स्वर्गमायांति तस्मात्स्वर्गोपमा गजाः ॥ ८ ॥ नास्ति हस्तिसमो योद्धा नास्ति हस्तिसमः सखा ॥ नास्ति हस्तिसमो बन्धुर्नास्ति हस्तिमो रिपुः ॥ ९ ॥ इति स्वरोदये गजचक्रम् ॥
अथ गजचक्रम् । गजाकारमिति ॥ १ ॥ नक्षत्रन्यासक्रमः । मुखशुंडाग्रनेत्रकर्ण - शीर्षचरणपुच्छ एवं क्रमेण गजांगन्यासः पृष्ठउदरमुखशंडाग्रादिपुच्छांतांगविभागे गजस्य दशांगे द्वयंद्वयं कृत्वा । गजनामनक्षत्रादिन्यासः । पृष्ठे चतुः उदरे चतुः ॥ २ ॥ गजनामादीति । सुगमम् ॥ ३ ॥ ४ ॥ पादे पृष्ठे चेति । चतुः पादौ शनौ पुच्छे पृष्ठे च कर्णे च शनौ यस्य गजस्यांगे ज्ञाते सति तं गजमारुह्य राजा संग्रामं न कुर्यात् । गजारोहणकांक्षयापि तुंगगजं नारोहेत ऐरावतसमोपि यदि । किं पुनः संग्रामं मुखादिषु शनौ यथेच्छया गजावरोहणं कुर्यात् ॥ ५ ॥ ६ ॥ गजप्रशंसामाह । पृथिव्या इति ॥ ७ ॥ ८ ॥ ९ ॥ इति नरपतिजयचर्याटीकायां गजचक्रम् ।
अथाश्वचक्रम् ॥
1
अथाश्वचक्रम् ॥ अश्वाकारं लिखेच्चक्रं अश्वधिष्ण्यादितारकाः ॥ वदनात्सृष्टिगा देया अष्टाविंशतिसंख्यया
॥ १ ॥ मुखाक्षिकर्णशीर्षेषु
पुच्छांत्रिषु युगं युगम् ॥ पंच पञ्चोदरे पृष्ठे सौरिर्यत्र फलं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
P
ततः ॥ २ ॥ सुखाक्ष्युदरशीर्षस्थो यदा सौरिस्तुरंगमे ॥ तदारिभंगमायाति रणेन्यत्र पराजयः ॥ ३ ॥ कर्णान्निपुच्छपृष्टस्थो यदा
www.umaragyanbhandar.com